भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.25

10.25.001

भ्प्_10.25.001।0 श्री-शुक उवाच
इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप ।
गोपेभ्यः कृष्ण-नाथेभ्यो नन्दादिभ्यश् चुकोप ह

10.25.002

गणं सांवर्तकं नाम मेघानां चान्त-कारीणाम् ।
इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत

10.25.003

अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् ।
कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम्

10.25.004

यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः ।
विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्

10.25.005

वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् ।
कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम्

10.25.006

एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।
धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम्

10.25.007

अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् ।
मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया

10.25.008

भ्प्_10.25.008।0 श्री-शुक उवाच
इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः ।
नन्द-गोकुलम् आसारैः पीडयाम् आसुर् ओजसा

10.25.009

विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।
तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः

10.25.010

स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः ।
जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम्

10.25.011

अत्य्-आसाराति-वातेन पशवो जात-वेपनाः ।
गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः

10.25.012

शिरः सुतांश् च कायेन प्रच्छाद्यासार-पीडिताः ।
वेपमाना भगवतः पाद-मूलम् उपाययुः

10.25.013

कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो ।
त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल

10.25.014

शिला-वर्षाति-वातेन हन्यमानम् अचेतनम् ।
निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः

10.25.015

अपर्त्व् अत्य्-उल्बणं वर्षम् अति-वातं शिला-मयम् ।
स्व-यागे विहते ऽस्माभिर् इन्द्रो नाशाय वर्षति

10.25.016

तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये ।
लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः

10.25.017

न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः ।
मत्तो ऽसतां मान-भङ्गः प्रशमायोपकल्पते

10.25.018

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः

10.25.019

इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
दधार लीलया विष्णुश् छत्राकम् इव बालकः

10.25.020

अथाह भगवान् गोपान् हे ऽम्ब तात व्रजौकसः ।
यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः

10.25.021

न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् ।
वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः

10.25.022

तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः ।
यथावकाशं स-धनाः स-व्रजाः सोपजीविनः

10.25.023

क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः ।
वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात्

10.25.024

कृष्ण-योगानुभावं तं निशम्येन्द्रो ऽति-विस्मितः ।
निस्तम्भो भ्रष्ट-सङ्कल्पः स्वान् मेघान् सन्न्यवारयत्

10.25.025

खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् ।
निशम्योपरतं गोपान् गोवर्धन-धरो ऽब्रवीत्

10.25.026

निर्यात त्यजत त्रासं गोपाः स-स्त्री-धनार्भकाः ।
उपारतं वात-वर्षं व्युद-प्रायाश् च निम्नगाः

10.25.027

ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गो-धनम् ।
शकटोढोपकरणं स्त्री-बाल-स्थविराः शनैः

10.25.028

भगवान् अपि तं शैलं स्व-स्थाने पूर्व-वत् प्रभुः ।
पश्यतां सर्व-भूतानां स्थापयाम् आस लीलया

10.25.030

तं प्रेम-वेगान् निर्भृता व्रजौकसो $ यथा समीयुः परिरम्भणादिभिः &अम्प्;
गोप्यश् च स-स्नेहम् अपूजयन् मुदा % दध्य्-अक्षताद्भिर् युयुजुः सद्-आशिषः ॥ भ्प्_10.25.029* ॥
यशोदा रोहिणी नन्दो रामश् च बलिनां वरः ।
कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः

10.25.031

दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः ।
तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव

10.25.032

शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः ।
जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप

10.25.033

ततो ऽनुरक्तैः पशुपैः परिश्रितो राजन् स्व-गोष्ठं स-बलो ऽव्रजद् धरिः ।
तथा-विधान्य् अस्य कृतानि गोपिका गायन्त्य ईयुर् मुदिता हृदि-स्पृशः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc