भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.24

10.24.001

भ्प्_10.24.001।0 श्री-शुक उवाच
भगवान् अपि तत्रैव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान्

10.24.002

तद्-अभिज्ञो ऽपि भगवान् सर्वात्मा सर्व-दर्शनः ।
प्रश्रयावनतो ऽपृच्छद् वृद्धान् नन्द-पुरोगमान्

10.24.003

कथ्यतां मे पितः को ऽयं सम्भ्रमो व उपागतः ।
किं फलं कस्य वोद्देशः केन वा साध्यते मखः

10.24.004

एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।
न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनाम् इह

10.24.005

अस्त्य् अस्व-पर-दृष्टीनाम् अमित्रोदास्त-विद्विषाम् ।
उदासीनो ऽरि-वद् वर्ज्य आत्म-वत् सुहृद् उच्यते

10.24.006

ज्ञत्वाज्ञात्वा च कर्माणि जनो ऽयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्याद् यथा नाविदुषो भवेत्

10.24.007

तत्र तावत् क्रिया-योगो भवतां किं विचारितः ।
अथ वा लौकिकस् तन् मे पृच्छतः साधु भण्यताम्

10.24.008

भ्प्_10.24.008।0 श्री-नन्द उवाच
पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः ।
ते ऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः

10.24.009

तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् ।
द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः

10.24.010

तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः

10.24.011

य एनं विसृजेद् धर्मं परम्पर्यागतं नरः ।
कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम्

10.24.012

भ्प्_10.24.012।0 श्री-शुक उवाच
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः

10.24.013

भ्प्_10.24.013।0 श्री-भगवान् उवाच
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते

10.24.014

अस्ति चेद् ईश्वरः कश्चित् फल-रूप्य् अन्य-कर्मणाम् ।
कर्तारं भजते सो ऽपि न ह्य् अकर्तुः प्रभुर् हि सः

10.24.015

किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् ।
अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम्

10.24.016

स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम्

10.24.017

देहान् उच्चावचाञ् जन्तुः प्राप्योत्सृजति कर्मणा ।
शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः

10.24.018

तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अन्जसा येन वर्तेत तद् एवास्य हि दैवतम्

10.24.019

आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति ।
न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा

10.24.020

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।
वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया

10.24.021

कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते ।
वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयो ऽनिशम्

10.24.022

सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ।
रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत्

10.24.023

रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः ।
प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति

10.24.024

न नः पुरोजनपदा न ग्रामा न गृहा वयम् ।
वनौकसस् तात नित्यं वन-शैल-निवासिनः

10.24.025

तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः ।
य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः

10.24.026

पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।
संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम्

10.24.027

हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्म-वादिभिः ।
अन्नं बहु-गुणं तेभ्यो देयं वो धेनु-दक्षिणाः

10.24.028

अन्येभ्यश् चाश्व-चाण्डाल- पतितेभ्यो यथार्हतः ।
यवसं च गवां दत्त्वा गिरये दीयतां बलिः

10.24.029

स्व्-अलङ्कृता भुक्तवन्तः स्व्-अनुलिप्ताः सु-वाससः ।
प्रदक्षिणां च कुरुत गो-विप्रानल-पर्वतान्

10.24.030

एतन् मम मतं तात क्रियतां यदि रोचते ।
अयं गो-ब्राह्मणाद्रीणां मह्यं च दयितो मखः

10.24.031

भ्प्_10.24.031।0 श्री-शुक उवाच
कालात्मना भगवता शक्र-दर्प-जिघांसया ।
प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः

10.24.032

तथा च व्यदधुः सर्वं यथाह मधुसूदनः ।
वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान्

10.24.033

उपहृत्य बलीन् सम्यग् आदृता यवसं गवाम् ।
गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्

10.24.034

अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्व्-अलङ्कृताः ।
गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः

10.24.035

कृष्णस् त्व् अन्यतमं रूपं गोप-विश्रम्भणं गतः ।
शैलो ऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्-वपुः

10.24.036

तस्मै नमो व्रज-जनैः सह चक्र आत्मनात्मने ।
अहो पश्यत शैलो ऽसौ रूपी नो ऽनुग्रहं व्यधात्

10.24.037

एषो ऽवजानतो मर्त्यान् काम-रूपी वनौकसः ।
हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम्

10.24.038

इत्य् अद्रि-गो-द्विज-मखं वासुदेव-प्रचोदिताः ।
यथा विधाय ते गोपा सह-कृष्णा व्रजं ययुः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc