भागवत पुराण · अध्याय 10.23
भ्प्_10.23.001।0 श्री-गोप ऊचुः
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण ।
एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः
भ्प्_10.23.002।0 श्री-शुक उवाच
इति विज्ञापितो गोपैर् भगवान् देवकी-सुतः ।
भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत्
प्रयात देव-यजनं ब्राह्मणा ब्रह्म-वादिनः ।
सत्रम् आङ्गिरसं नाम ह्य् आसते स्वर्ग-काम्यया
तत्र गत्वौदनं गोपा याचतास्मद्-विसर्जिताः ।
कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्
इत्य् आदिष्टा भगवता गत्वा याचन्त ते तथा ।
कृताञ्जलि-पुटा विप्रान् दण्ड-वत् पतिता भुवि
हे भूमि-देवाः शृणुत कृष्णस्यादेश-कारिणः ।
प्राप्ताञ् जानीत भद्रं वो गोपान् नो राम-चोदितान्
गाश् चारयन्ताव् अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ ।
तयोर् द्विजा ओदनम् अर्थिनोर् यदि श्रद्धा च वो यच्छत धर्म-वित्तमाः
दीक्षायाः पशु-संस्थायाः सौत्रामण्याश् च सत्तमाः ।
अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति
इति ते भगवद्-याच्ञां शृण्वन्तो ऽपि न शुश्रुवुः ।
क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः
देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः ।
देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः
तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् ।
मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे
न ते यद् ओम् इति प्रोचुर् न नेति च परन्तप ।
गोपा निराशाः प्रत्येत्य तथोचुः कृष्ण-रामयोः
तद् उपाकर्ण्य भगवान् प्रहस्य जगद्-ईश्वरः ।
व्याजहार पुनर् गोपान् दर्शयन् लौकिकीं गतिम्
मां ज्ञापयत पत्नीभ्यः स-सङ्कर्षणम् आगतम् ।
दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया
गत्वाथ पत्नी-शालायां दृष्ट्वासीनाः स्व्-अलङ्कृताः ।
नत्वा द्विज-सतीर् गोपाः प्रश्रिता इदम् अब्रुवन्
नमो वो विप्र-पत्नीभ्यो निबोधत वचांसि नः ।
इतो ऽविदूरे चरता कृष्णेनेहेषिता वयम्
गाश् चारयन् स गोपालैः स-रामो दूरम् आगतः ।
बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम्
श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः ।
तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः
चतुर्-विधं बहु-गुणम् अन्नम् आदाय भाजनैः ।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः
निषिध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः ।
भगवत्य् उत्तम-श्लोके दीर्घ-श्रुत -धृताशयाः
यमुनोपवने ऽशोक नव-पल्लव-मण्डिते ।
विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः
श्यामं हिरण्य-परिधिं वनमाल्य-बर्ह- $ धातु-प्रवाल-नट-वेषम् अनव्रतांसे &अम्प्;
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं % कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ भ्प्_10.23.022* ॥
प्रायः-श्रुत-प्रियतमोदय-कर्ण-पूरैर् $ यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्द्रैः &
प्रायः-श्रुत-प्रियतमोदय-कर्ण-पूरैर् $ यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्द्रैः &
अन्तः प्रवेश्य सु-चिरं परिरभ्य तापं % प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ भ्प्_10.23.023* ॥
तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया ।
विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः
स्वागतं वो महा-भागा आस्यतां करवाम किम् ।
यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः
नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ-दर्शिनः ।
अहैतुक्य् अव्यवहितां भक्तिम् आत्म-प्रिये यथा
प्राण-बुद्धि-मनः-स्वात्म दारापत्य-धनादयः ।
यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः
तद् यात देव-यजनं पतयो वो द्विजातयः ।
स्व-सत्रं पारयिष्यन्ति युष्माभिर् गृह-मेधिनः
भ्प्_10.23.029।0 श्री-पत्न्य ऊचुः
मैवं विभो ऽर्हति भवान् गदितुं न्र्-शंसं $ सत्यं कुरुष्व निगमं तव पद-मूलम् &
मैवं विभो ऽर्हति भवान् गदितुं न्र्-शंसं $ सत्यं कुरुष्व निगमं तव पद-मूलम् &
प्राप्ता वयं तुलसि-दाम पदावसृष्टं % केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ भ्प्_10.23.029* ॥
गृह्णन्ति नो न पतयः पितरौ सुता वा $ न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये &
गृह्णन्ति नो न पतयः पितरौ सुता वा $ न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये &
तस्माद् भवत्-प्रपदयोः पतितात्मनां नो % नान्या भवेद् गतिर् अरिन्दम तद् विधेहि ॥ भ्प्_10.23.030*
0 श्री-भगवान् उवाच
पतयो नाभ्यसूयेरन् पितृ-भ्रातृ-सुतादयः ।
लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते
न प्रीतये ऽनुरागाय ह्य् अङ्ग-सङ्गो नृणाम् इह ।
तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ
श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान्
भ्प्_10.23.034।0 श्री-शुक उवाच
इत्य् उक्ता द्विज-पत्न्यस् ता यज्ञ-वाटं पुनर् गताः ।
ते चानसूयवस् ताभिः स्त्रीभिः सत्रम् अपारयन्
तत्रैका विधृता भर्त्रा भगवन्तं यथा-श्रुतम् ।
हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम्
भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् ।
चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः
एवं लीला-नर-वपुर् न्र्-लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः
अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः ।
यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः
दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन्
धिग् जन्म नस् त्रि-वृद् यत् तद् धिग् व्रतं धिग् बहु-ज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखा ये त्व् अधोक्षजे
नूनं भगवतो माया योगिनाम् अपि मोहिनी ।
यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः
अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ ।
दुरन्त-भावं यो ऽविध्यन् मृत्यु-पाशान् गृहाभिधान्
नासां द्विजाति-संस्कारो न निवासो गुराव् अपि ।
न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः
तथापि ह्य् उत्तमः-श्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि
ननु स्वार्थ-विमूढानां प्रमत्तानां गृहेहया ।
अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः
अन्यथा पूर्ण-कामस्य कैवल्याद्य्-अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम्
हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् ।
स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी
देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः ।
देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः
स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः ।
जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूढा न विद्महे
तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे ।
यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु
स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् ।
अविज्ञतानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम्
इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0