भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.22

10.22.001

भ्प्_10.22.001।0 श्री-शुक उवाच
हेमन्ते प्रथमे मासि नन्द-व्रज-कमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम्

10.22.002

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते ऽरुणे ।
कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम्

10.22.003

गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः ।
उच्चावचैश् चोपहारैः प्रवाल-फल-तण्डुलैः

10.22.004

कात्यायनि महा-माये महा-योगिन्य् अधीश्वरि ।
नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ।
इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कमारिकाः

10.22.005

एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः ।
भद्रकालीं समानर्चुर् भूयान् नन्द-सुतः पतिः

10.22.006

ऊषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः ।
कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम्

10.22.007

नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्व-वत् ।
वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा

10.22.008

भगवांस् तद् अभिप्रेत्य कृष्नो योगेश्वरेश्वरः ।
वयस्यैर् आवृतस् तत्र गतस् तत्-कर्म-सिद्धये

10.22.009

तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह

10.22.010

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।
सत्यं ब्रवाणि नो नर्म यद् यूयं व्रत-कर्शिताः

10.22.011

न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः ।
एकैकशः प्रतीच्छध्वं सहैवेति सु-मध्यमाः

10.22.012

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम-परिप्लुताः ।
व्रीडिताः प्रेक्ष्य चान्योन्यं जात-हासा न निर्ययुः

10.22.013

एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः ।
आ-कण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन्

10.22.014

मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः

10.22.015

श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।
देहि वासांसि धर्म-ज्ञ नो चेद् राज्ञे ब्रुवाम हे

10.22.016

भ्प्_10.22.016।0 श्री-भगवान् उवाच
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
अत्रागत्य स्व-वासांसि प्रतीच्छत शुचि-स्मिताः ।
नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति

10.22.017

ततो जलाशयात् सर्वा दारिकाः शीत-वेपिताः ।
पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः

10.22.018

भगवान् आहता वीक्ष्य शुद्ध -भाव-प्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम्

10.22.019

यूयं विवस्त्रा यद् अपो धृत-व्रता व्यगाहतैतत् तद् उ देव-हेलनम् ।
बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तये ऽंहसः कृत्वा नमो ऽधो-वसनं प्रगृह्यताम्

10.22.020

इत्य् अच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् ।
तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः

10.22.021

तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः ।
वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः

10.22.023

दृढं प्रलब्धास् त्रपया च हापिताः $ प्रस्तोभिताः क्रीडन-वच् च कारिताः &अम्प्;
वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं % ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ भ्प्_10.22.022* ॥
परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः ।
गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः

10.22.024

तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया ।
धृत-व्रतानां सङ्कल्पम् आह दामोदरो ऽबलाः

10.22.025

सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् ।
मयानुमोदितः सो ऽसौ सत्यो भवितुम् अर्हति

10.22.026

न मय्य् आवेशित-धियां कामः कामाय कल्पते ।
भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते

10.22.027

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः ।
यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः

10.22.028

भ्प्_10.22.028।0 श्री-शुक उवाच
इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः ।
ध्यायन्त्यस् तत्-पदाम्भोजम् कृच्छ्रान् निर्विविशुर् व्रजम्

10.22.029

अथ गोपैः परिवृतो भगवान् देवकी-सुतः ।
वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः

10.22.030

निदघार्कातपे तिग्मे छायाभिः स्वाभिर् आत्मनः ।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः

10.22.031

हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल वृषभौजस्विन् देवप्रस्थ वरूथप

10.22.032

पश्यतैतान् महा-भागान् परार्थैकान्त-जीवितान् ।
वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः

10.22.033

अहो एषां वरं जन्म सर्व -प्राण्य्-उपजीवनम् ।
सु-जनस्येव येषां वै विमुखा यान्ति नार्थिनः

10.22.034

पत्र-पुष्प-फल-च्छाया- मूल-वल्कल-दारुभिः ।
गन्ध-निर्यास-भस्मास्थि- तोक्मैः कामान् वितन्वते

10.22.035

एतावज् जन्म-साफल्यं देहिनाम् इह देहिषु ।
प्राणैर् अर्थैर् धिया वाचा श्रेय-आचरणं सदा

10.22.036

इति प्रवाल-स्तबक- फल-पुष्प-दलोत्करैः ।
तरूणां नम्र-शाखानां मध्यतो यमुनां गतः

10.22.037

तत्र गाः पाययित्वापः सु-मृष्टाः शीतलाः शिवाः ।
ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम्

10.22.038

तस्या उपवने कामं चारयन्तः पशून् नृप ।
कृष्ण-रामाव् उपागम्य क्षुध्-आर्ता इदम् अब्रवन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc