भागवत पुराण · अध्याय 10.21
भ्प्_10.21.001।0 श्री-शुक उवाच
इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना ।
न्यविशद् वायुना वातं स -गो-गोपालको ऽच्युतः
कुसुमित-वनराजि-शुष्मि-भृङ्ग द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् ।
मधुपतिर् अवगाह्य चारयन् गाः सह-पशु-पाल-बलश् चुकूज वेणुम्
तद् व्रज-स्त्रिय आश्रुत्य वेणु-गीतं स्मरोदयम् ।
काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन्
तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् ।
नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप
बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं $ बिभ्रद् वासः कनक-कपिशं वैजयन्तीं च मालाम् &अम्प्;
रन्ध्रान् वेणोर् अधर-सुधयापूरयन् गोप-वृन्दैर् % वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ भ्प्_10.21.005* ॥
इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् ।
श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्यो ऽभिरेभिरे
भ्प्_10.21.007।0 श्री-गोप्य ऊचुः
अक्षण्वतां फलम् इदं न परं विदामः $ सख्यः पशून् अनविवेशयतोर् वयस्यैः &
अक्षण्वतां फलम् इदं न परं विदामः $ सख्यः पशून् अनविवेशयतोर् वयस्यैः &
वक्त्रं व्रजेश-सुतयोर् अनवेणु-जुष्टं % यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ भ्प्_10.21.007* ॥
चूत-प्रवाल-बर्ह-स्तबकोत्पलाब्ज मालानुपृक्त-परिधान-विचित्र-वेशौ ।
मध्ये विरेजतुर् अलं पशु-पाल-गोष्ठ्यां रङ्गे यथा नट-वरौ क्वच गायमानौ
गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् $ दामोदराधर-सुधाम् अपि गोपिकानाम् &अम्प्;
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो % हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्यः ॥ भ्प्_10.21.009* ॥
वृन्दावनं सखि भुवो वितनोति कीऋतिं $ यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि &
वृन्दावनं सखि भुवो वितनोति कीऋतिं $ यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि &
गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं % प्रेक्ष्याद्रि-सान्व्-अवरतान्य-समस्त-सत्त्वम् ॥ भ्प्_10.21.010* ॥
धन्याः स्म मूढ-गतयो ऽपि हरिण्य एता $ या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् &
धन्याः स्म मूढ-गतयो ऽपि हरिण्य एता $ या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् &
आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः % पूजां दधुर् विरचितां प्रणयावलोकैः ॥ भ्प्_10.21.011* ॥
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं $ श्रुत्वा च तत्-क्वणित-वेणु-विविक्त-गीतम् &
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं $ श्रुत्वा च तत्-क्वणित-वेणु-विविक्त-गीतम् &
देव्यो विमान-गतयः स्मर-नुन्न-सारा % भ्रश्यत्-प्रसून-कबरा मुमुहुर् विनीव्यः ॥ भ्प्_10.21.012* ॥
गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत $ पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः &
गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत $ पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः &
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् % गोविन्दम् आत्मनि दृशाश्रु-कलाः स्पृशन्त्यः ॥ भ्प्_10.21.013* ॥
प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् $ कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् &
प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् $ कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् &
आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् % शृण्वन्ति मीलित-दृशो विगतान्य-वाचः ॥ भ्प्_10.21.014* ॥
नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् $ आवर्त-लक्षित-मनोभव-भग्न-वेगाः &
नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् $ आवर्त-लक्षित-मनोभव-भग्न-वेगाः &
आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर् % गृह्णन्ति पाद-युगलं कमलोपहाराः ॥ भ्प्_10.21.015* ॥
दृष्ट्वातपे व्रज-पशून् सह राम-गोपैः $ सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् &
दृष्ट्वातपे व्रज-पशून् सह राम-गोपैः $ सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् &
प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः % सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् ॥ भ्प्_10.21.016* ॥
पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग $ श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन &
पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग $ श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन &
तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन % लिम्पन्त्य आनन-कुचेषु जहुस् तद्-आधिम् ॥ भ्प्_10.21.017* ॥
हन्तायम् अद्रिर् अबला हरि-दास-वर्यो $ यद् राम-कृष्ण-चरण-स्परश-प्रमोदः &
हन्तायम् अद्रिर् अबला हरि-दास-वर्यो $ यद् राम-कृष्ण-चरण-स्परश-प्रमोदः &
मानं तनोति सह-गो-गणयोस् तयोर् यत् % पानीय-सूयवस-कन्दर-कन्दमूलैः ॥ भ्प्_10.21.018* ॥
गा गोपकैर् अनु-वनं नयतोर् उदार $ वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः &
गा गोपकैर् अनु-वनं नयतोर् उदार $ वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः &
अस्पन्दनं गति-मतां पुलकस् तरुणां % निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् ॥ भ्प्_10.21.019* ॥
एवं-विधा भगवतो या वृन्दावन-चारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां ययुः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0