भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.20

10.20.001

भ्प्_10.20.001।0 श्री-शुक उवाच
तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः ।
गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च

10.20.002

गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः ।
मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ

10.20.003

ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा ।
विद्योतमान-परिधिर् विस्फूर्जित-नभस्-तला

10.20.004

सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः ।
अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्मेव स-गुणं बभौ

10.20.005

अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु ।
स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते

10.20.006

तडिद्वन्तो महा-मेघाश् चण्ड -श्वसन -वेपिताः ।
प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव

10.20.007

तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही ।
यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम्

10.20.008

निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः ।
यथा पापेन पाषण्डा न हि वेदाः कलौ युगे

10.20.009

श्रुत्वा पर्जन्य-निनदं मण्डुकाः ससृजुर् गिरः ।
तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये

10.20.010

आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्यो ऽनुशुष्यतीः ।
पुंसो यथास्वतन्त्रस्य देह-द्रविण -सम्पदः

10.20.011

हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता ।
उच्छिलीन्ध्र-कृत-च्छाया नृणां श्रीर् इव भूर् अभूत्

10.20.012

क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणां मुदं ददुः ।
मानिनाम् अनुतापं वै दैवाधीनम् अजानताम्

10.20.013

जल-स्थलौकसः सर्वे नव-वारि-निषेवया ।
अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया

10.20.014

सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् ।
अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा

10.20.015

गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः ।
अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः

10.20.016

मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः ।
नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः

10.20.017

लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः ।
स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव

10.20.018

धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् ।
व्यक्ते गुण-व्यतिकरे ऽगुणवान् पुरुषो यथा

10.20.019

न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः ।
अहं-मत्या भासितया स्व-भासा पुरुषो यथा

10.20.020

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः ।
गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे

10.20.021

पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः ।
प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया

10.20.022

सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः ।
गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः

10.20.023

जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे ।
पाषण्डिनाम् असद्-वादैर् वेद-मार्गाः कलौ यथा

10.20.024

व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः ।
यथाशिषो विश्-पतयः काले काले द्विजेरिताः

10.20.025

एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत् ।
गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः

10.20.026

धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा ।
ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः

10.20.027

वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः ।
जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः

10.20.028

क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति ।
निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः

10.20.029

दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके ।
सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः

10.20.030

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।
तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः

10.20.031

प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् ।
भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम्

10.20.032

एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे ।
शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला

10.20.033

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।
भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया

10.20.034

व्योम्नो ऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् ।
शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम्

10.20.035

सर्व-स्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः ।
यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः

10.20.036

गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् ।
यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा

10.20.037

नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः ।
यथायुर् अन्व्-अहं क्षय्यं नरा मूढाः कुटुम्बिनः

10.20.038

गाध-वारि-चरास् तापम् अविन्दञ् छरद्-अर्क-जम् ।
यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः

10.20.039

शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः ।
यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु

10.20.040

निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे ।
आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः

10.20.041

केदारेभ्यस् त्व् अपो ऽगृह्णन् कर्षका दृढ-सेतुभिः ।
यथा प्राणैः स्रवज् ज्ञानं तन्-निरोधेन योगिनः

10.20.042

शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपो ऽहरत् ।
देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम्

10.20.043

खम् अशोभत निर्मेघं शरद्-विमल-तारकम् ।
सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम्

10.20.044

अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी ।
यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि

10.20.045

आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् ।
जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः

10.20.046

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।
अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव

10.20.047

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना ।
राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप

10.20.048

पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः ।
बभौ भूः पक्व-शष्याढ्या कलाभ्यां नितरां हरेः

10.20.049

वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे ।
वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc