भागवत पुराण · अध्याय 10.19
भ्प्_10.19.001।0 श्री-शुक उवाच
क्रीडासक्तेषु गोपेषु तद्-गावो दूर-चारिणीः ।
स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम्
अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् ।
ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः
ते ऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा ।
जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम्
तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् ।
मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः
मुञ्जाटव्यां भ्रष्ट-मार्गं क्रन्दमानं स्व-गोधनम् ।
सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन्
ता आहूता भगवता मेघ-गम्भीरया गिरा ।
स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः
ततः समन्ताद् दव-धूमकेतुर् यदृच्छयाभूत् क्षय-कृद् वनौकसाम् ।
समीरितः सारथिनोल्बणोल्मुकैर् विलेलिहानः स्थिर-जङ्गमान् महान्
तम् आपतन्तं परितो दवाग्निं गोपाश् च गावः प्रसमीक्ष्य भीताः ।
ऊचुश् च कृष्णं स-बलं प्रपन्ना यथा हरिं मृत्यु-भयार्दिता जनाः
कृष्ण कृष्ण महा-वीर हे रामामोघ विक्रम ।
दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः
नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् ।
वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः
भ्प्_10.19.011।0 श्री-शुक उवाच
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।
निमीलयत मा भैष्ट लोचनानीत्य् अभाषत
तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् ।
पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत्
ततश् च ते ऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः ।
निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः
कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् ।
दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरे ऽमरम्
गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः ।
वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0