भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.18

10.18.001

भ्प्_10.18.001।0 श्री-शुक उवाच
अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः ।
अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम्

10.18.002

व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया ।
ग्रीष्मो नामर्तुर् अभवन् नाति-प्रेयाञ् छरीरिणाम्

10.18.003

स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः

10.18.004

यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् ।
शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल-मण्डितम्

10.18.005

सरित्-सरः-प्रस्रवणोर्मि-वायुना कह्लार-कञ्जोत्पल-रेणु-हारिणा ।
न विद्यते यत्र वनौकसां दवो निदाघ-वह्न्य्-अर्क-भवो ऽति-शाद्वले

10.18.006

अगाध-तोय-ह्रदिनी-तटोर्मिभिर् द्रवत्-पुरीष्याः पुलिनैः समन्ततः ।
न यत्र चण्डांशु-करा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते

10.18.007

वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् ।
गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्

10.18.008

क्रीडिष्यमाणस् तत् क्र्ष्णो भगवान् बल-संयुतः ।
वेणुं विरणयन् गोपैर् गो-धनैः संवृतो ऽविशत्

10.18.009

प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः ।
राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः

10.18.010

कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् ।
वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे

10.18.011

गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप

10.18.012

भ्रमणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित्

10.18.013

क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर् महा-राज साधु साध्व् इति वादिनौ

10.18.014

क्वचिद् बिल्वैः क्वचित् कुम्भैः क्वचामलक-मुष्टिभिः ।
अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया

10.18.015

क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः ।
कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया

10.18.016

एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने ।
नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च

10.18.017

पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः ।
गोप-रूपी प्रलम्बो ऽगाद् असुरस् तज्-जिहीर्षया

10.18.018

तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः ।
अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्

10.18.019

तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-वित् ।
हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम्

10.18.020

तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ ।
कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे

10.18.021

आचेरुर् विविधाः क्रीडा वाह्य-वाहक-लक्षणाः ।
यत्रारोहन्ति जेतारो वहन्ति च पराजिताः

10.18.022

वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् ।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः

10.18.023

राम-सङ्घट्टिनो यर्हि श्रीदाम-वृषभादयः ।
क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप

10.18.024

उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।
वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम्

10.18.025

अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः ।
वहन् द्रुततरं प्रागाद् अवरोहणतः परम्

10.18.028

तम् उद्वहन् धरणि-धरेन्द्र-गौरवं $ महासुरो विगत-रयो निजं वपुः &अम्प्;
स आस्थितः पुरट-परिच्छदो बभौ % तडिद्-द्युमान् उडुपति-वाड् इवाम्बुदः ॥ भ्प्_10.18.026* ॥
निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् $ प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् &
निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् $ प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् &
ज्वलच्-छिखं कटक-किरीट-कुण्डल- % त्विषाद्भुतं हलधर ईषद् अत्रसत् ॥ भ्प्_10.18.027* ॥
अथागत-स्मृतिर् अभयो रिपुं बलो विहाय सार्थम् इव हरन्तम् आत्मनः ।
रुषाहनच् छिरसि दृढेन मुष्टिना सुराधिपो गिरिम् इव वज्र-रंहसा

10.18.029

स आहतः सपदि विशीर्ण-मस्तको मुखाद् वमन् रुधिरम् अपस्मृतो ऽसुरः ।
महा-रवं व्यसुर् अपतत् समीरयन् गिरिर् यथा मघवत आयुधाहतः

10.18.030

दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना ।
गोपाः सु-विस्मिता आसन् साधु साध्व् इति वादिनः

10.18.031

आशिषो ऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् ।
प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः

10.18.032

पापे प्रलम्बे निहते देवाः परम-निर्वृताः ।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc