भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.17

10.17.001

भ्प्_10.17.001।0 श्री-राजोवाच
नागालयं रमणकं कथं तत्याज कालियः ।
कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्

10.17.002

भ्प्_10.17.002।0 श्री-शुक उवाच
उपहार्यैः सर्प-जनैर् मासि मासीह यो बलिः ।
वानस्पत्यो महा-बाहो नागानां प्राङ्-निरूपितः

10.17.003

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।
गोपीथायात्मनः सर्वे सुपर्णाय महात्मने

10.17.004

विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः ।
कदर्थी-कृत्य गरुडं स्वयं तं बुभुजे बलिम्

10.17.005

तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः ।
विजिघांसुर् महा-वेगः कालियं समपाद्रवत्

10.17.006

तम् आपतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः ।
दद्भिः सुपर्णं व्यदशद् दद्-आयुधः कराल-जिह्रोच्छ्वसितोग्र-लोचनः

10.17.008

तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान् $ प्रचण्ड-वेगो मधुसूदनासनः &अम्प्;
पक्षेण सव्येन हिरण्य-रोचिषा % जघान कद्रु-सुतम् उग्र-विक्रमः ॥ भ्प्_10.17.007* ॥
सुपर्ण-पक्षाभिहतः कालियो ऽतीव विह्वलः ।
ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम्

10.17.009

तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् ।
निवारितः सौभरिणा प्रसह्य क्षुधितो ऽहरत्

10.17.010

मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते ।
कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन्

10.17.011

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम्

10.17.012

तत् कालियः परं वेद नान्यः कश्चन लेलिहः ।
अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः

10.17.013

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् ।
महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम्

10.17.014

उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ।
प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे

10.17.015

यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव ।
कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि

10.17.016

रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् ।
प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत ।
गावो वृषा वत्सतर्यो लेभिरे परमां मुदम्

10.17.017

नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः ।
ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः

10.17.018

देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे ।
नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत्

10.17.019

यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती ।
परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः

10.17.020

तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः ।
ऊषुर् व्रयौकसो गावः कालिन्द्या उपकूलतः

10.17.021

तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् ।
सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे

10.17.022

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।
कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम्

10.17.023

कृष्ण कृष्ण महा-भग हे रामामित-विक्रम ।
एष घोरतमो वह्निस् तावकान् ग्रसते हि नः

10.17.024

सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम्

10.17.025

इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः ।
तम् अग्निम् अपिबत् तीव्रम् अनन्तो ऽनन्त-शक्ति-धृक्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc