भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.16

10.16.001

भ्प्_10.16.001।0 श्री-शुक उवाच
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।
तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत्

10.16.002

भ्प्_10.16.002।0 श्री-राजोवाच
कथम् अन्तर्-जले ऽगाधे न्यगृह्णाद् भगवान् अहिम् ।
स वै बहु-युगावासं यथासीद् विप्र कथ्यताम्

10.16.003

ब्रह्मन् भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः ।
गोपालोदार-चरितं कस् तृप्येतामृतं जुषन्

10.16.004

भ्प्_10.16.004।0 श्री-शुक उवाच
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना ।
श्रप्यमाण-पया यस्मिन् पतन्त्य् उपरि-गाः खगाः

10.16.005

विप्रुष्मता विषदोर्मि- मारुतेनाभिमर्शिताः ।
म्रियन्ते तीर-गा यस्य प्राणिनः स्थिर-जङ्गमाः

10.16.011

तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन $ दुष्टां नदीं च खल-संयमनावतारः &अम्प्;
कृष्णः कदम्बम् अधिरुह्य ततो ऽति-तुङ्गम् % आस्फोट्य गाढ-रशनो न्यपतद् विषोदे ॥ भ्प्_10.16.006* ॥
सर्प-ह्रदः पुरुष-सार-निपात-वेग- $ सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः &
सर्प-ह्रदः पुरुष-सार-निपात-वेग- $ सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः &
पर्यक् प्लुतो विष-कषाय-बिभीषणोर्मिर् % धावन् धनुः-शतम् अनन्त-बलस्य किं तत् ॥ भ्प्_10.16.007* ॥
तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण- $ वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य &
तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण- $ वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य &
आश्रुत्य तत् स्व-सदनाभिभवं निरीक्ष्य % चक्षुः-श्रवाः समसरत् तद् अमृष्यमाणः ॥ भ्प्_10.16.008* ॥
तं प्रेक्षणीय-सुकुमार-घनावदातं $ श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् &
तं प्रेक्षणीय-सुकुमार-घनावदातं $ श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् &
क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं % सन्दश्य मर्मसु रुषा भुजया चछाद ॥ भ्प्_10.16.009* ॥
तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् $ आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः &
तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् $ आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः &
कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा % दुःखानुशोक-भय-मूढ-धियो निपेतुः ॥ भ्प्_10.16.010* ॥
गावो वृषा वत्सतर्यः क्रन्दमानाः सु-दुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे

10.16.012

अथ व्रजे महोत्पातास् त्रि-विधा ह्य् अति-दारुणाः ।
उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्न-भय-शंसिनः

10.16.013

तान् आलक्ष्य भयोद्विग्ना गोपा नन्द-पुरोगमाः ।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्

10.16.014

तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्-विदः ।
तत्-प्राणास् तन्-मनस्कास् ते दुःख-शोक-भयातुराः

10.16.015

आ-बाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः

10.16.016

तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।
प्रहस्य किञ्चिन् नोवाच प्रभाव-ज्ञो ऽनुजस्य सः

10.16.017

ते ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।
भगवल्-लक्षणैर् जग्मुः पदव्या यमुना-तटम्

10.16.018

ते तत्र तत्राब्ज-यवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्-पतेः ।
मार्गे गवाम् अन्य-पदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः

10.16.022

अन्तर् ह्रदे भुजग-भोग-परीतम् आरात् $ कृष्णं निरीहम् उपलभ्य जलाशयान्ते &अम्प्;
गोपांश् च मूढ-धिषणान् परितः पशूंश् च % सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः ॥ भ्प्_10.16.019* ॥
गोप्यो ऽनुरक्त-मनसो भगवत्य् अनन्ते $ तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः &
गोप्यो ऽनुरक्त-मनसो भगवत्य् अनन्ते $ तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः &
ग्रस्ते ऽहिना प्रियतमे भृश-दुःख-तप्ताः % शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रि-लोकम् ॥ भ्प्_10.16.020* ॥
ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टां $ तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः &
ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टां $ तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः &
तास् ता व्रज-प्रिय-कथाः कथयन्त्य आसन् % कृष्णानने ऽर्पित-दृशो मृतक-प्रतीकाः ॥ भ्प्_10.16.021* ॥
कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाव-वित्

10.16.033

इत्थम् स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य $ स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः &अम्प्;
आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः % स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्ग-बन्धात् ॥ भ्प्_10.16.023* ॥
तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् $ त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः &
तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् $ त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः &
तस्थौ श्वसञ् छ्वसन-रन्ध्र-विषाम्बरीष- % स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः ॥ भ्प्_10.16.024* ॥
तं जिह्वया द्वि-शिखया परिलेलिहानं $ द्वे सृक्वणी ह्य् अति-कराल-विषाग्नि-दृष्टिम् &
तं जिह्वया द्वि-शिखया परिलेलिहानं $ द्वे सृक्वणी ह्य् अति-कराल-विषाग्नि-दृष्टिम् &
क्रीडन्न् अमुं परिससार यथा खगेन्द्रो % बभ्राम सो ऽप्य् अवसरं प्रसमीक्षमाणः ॥ भ्प्_10.16.025* ॥
एवं परिभ्रम-हतौजसम् उन्नतांसम् $ आनम्य तत्-पृथु-शिरःस्व् अधिरूढ आद्यः &
एवं परिभ्रम-हतौजसम् उन्नतांसम् $ आनम्य तत्-पृथु-शिरःस्व् अधिरूढ आद्यः &
तन्-मूर्ध-रत्न-निकर-स्पर्शाति-ताम्र- % पादाम्बुजो ऽखिल-कलादि-गुरुर् ननर्त ॥ भ्प्_10.16.026* ॥
तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- $ गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः &
तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- $ गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः &
प्रीत्या मृदङ्ग-पणवानक-वाद्य-गीत- % पुष्पोपहार-नुतिभिः सहसोपसेदुः ॥ भ्प्_10.16.027* ॥
यद् यच् छिरो न नमते ऽङ्ग शतैक-शीर्ष्णस् $ तत् तन् ममर्द खर-दण्ड-धरो ऽङ्घ्रि-पातैः &
यद् यच् छिरो न नमते ऽङ्ग शतैक-शीर्ष्णस् $ तत् तन् ममर्द खर-दण्ड-धरो ऽङ्घ्रि-पातैः &
क्षीणायुषो भ्रमत उल्बणम् आस्यतो ऽसृङ् % नस्तो वमन् परम-कश्मलम् आप नागः ॥ भ्प्_10.16.028* ॥
तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु $ यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः &
तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु $ यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः &
नृत्यन् पदानुनमयन् दमयां बभूव % पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ भ्प्_10.16.029* ॥
तच्-चित्र-ताण्डव-विरुग्न-फणा-सहस्रो $ रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः &
तच्-चित्र-ताण्डव-विरुग्न-फणा-सहस्रो $ रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः &
स्मृत्वा चराचर-गुरुं पुरुषं पुराणं % नारायणं तम् अरणं मनसा जगाम ॥ भ्प्_10.16.030* ॥
कृष्णस्य गर्भ-जगतो ऽति-भरावसन्नं $ पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् &
कृष्णस्य गर्भ-जगतो ऽति-भरावसन्नं $ पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् &
दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य % आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः ॥ भ्प्_10.16.031* ॥
तास् तं सु-विग्न-मनसो ऽथ पुरस्कृतार्भाः $ कायं निधाय भुवि भूत-पतिं प्रणेमुः &
तास् तं सु-विग्न-मनसो ऽथ पुरस्कृतार्भाः $ कायं निधाय भुवि भूत-पतिं प्रणेमुः &
साध्व्यः कृताञ्जलि-पुटाः शमलस्य भर्तुर् % मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः ॥ भ्प्_10.16.032*

10.16.034

0 नाग-पत्न्य ऊचुः
न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् $ तवावतारः खल-निग्रहाय &
न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् $ तवावतारः खल-निग्रहाय &
रिपोः सुतानाम् अपि तुल्य-दृष्टिर् % धत्से दमं फलम् एवानुशंसन् ॥ भ्प्_10.16.033* ॥
अनुग्रहो ऽयं भवतः कृतो हि नो दण्डो ऽसतां ते खलु कल्मषापहः ।
यद् दन्दशूकत्वम् अमुष्य देहिनः क्रोधो ऽपि ते ऽनुग्रह एव सम्मतः

10.16.035

तपः सुतप्तं किम् अनेन पूर्वं निरस्त-मानेन च मान-देन ।
धर्मो ऽथ वा सर्व-जनानुकम्पया यतो भवांस् तुष्यति सर्व-जीवः

10.16.036

कस्यानुभावो ऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्परशाधिकारः ।
यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सु-चिरं धृत-व्रता

10.16.038

न नाक-पृष्ठं न च सार्व-भौमं $ न पारमेष्ठ्यं न रसाधिपत्यम् &अम्प्;
न योग-सिद्धीर् अपुनर्-भवं वा % वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ भ्प्_10.16.037* ॥
तद् एष नाथाप दुरापम् अन्यैस् तमो-जनिः क्रोध-वशो ऽप्य् अहीशः ।
संसार-चक्रे भ्रमतः शरीरिणो यद्-इच्छतः स्याद् विभवः समक्षः

10.16.039

नमस् तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने

10.16.040

ज्ञान-विज्ञान-नीधये ब्रह्मणे ऽनन्त-शक्तये ।
अगुणायाविकाराय नमस् ते प्राकृताय च

10.16.041

कालाय काल-नाभाय कालावयव-साक्षिणे ।
विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे

10.16.042

भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने ।
त्रि-गुणेनाभिमानेन गूढ-स्वात्मानुभूतये

10.16.043

नमो ऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते ।
नाना-वादानुरोधाय वाच्य-वाचक-शक्तये

10.16.044

नमः प्रमाण-मूलाय कवये शास्त्र-योनये ।
प्रवृत्ताय निवृत्ताय निगमाय नमो नमः

10.16.045

नमः कृष्णाय रामाय वसुदेव-सुताय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः

10.16.046

नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च ।
गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे

10.16.047

अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये ।
हृषीकेश नमस् ते ऽस्तु मुनये मौन-शीलिने

10.16.048

परावर-गति-ज्ञाय सर्वाध्यक्षाय ते नमः ।
अविश्वाय च विश्वाय तद्-द्रष्ट्रे ऽस्य च हेतवे

10.16.051

त्वं ह्य् अस्य जन्म-स्थिति-संयमान् विभो $ गुणैर् अनीहो ऽकृत-काल-शक्ति-धृक् &अम्प्;
तत्-तत्-स्वभावान् प्रतिबोधयन् सतः % समीक्षयामोघ-विहार ईहसे ॥ भ्प्_10.16.049* ॥
तस्यैव ते ऽमूस् तनवस् त्रि-लोक्यां $ शान्ता अशान्ता उत मूढ-योनयः &
तस्यैव ते ऽमूस् तनवस् त्रि-लोक्यां $ शान्ता अशान्ता उत मूढ-योनयः &
शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां % स्थातुश् च ते धर्म-परीप्सयेहतः ॥ भ्प्_10.16.050* ॥
अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः ।
क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः

10.16.052

अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः ।
स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम्

10.16.053

विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया ।
यच्-छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात्

10.16.054

भ्प्_10.16.054।0 श्री-शुक उवाच
इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः ।
मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः

10.16.055

प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् ।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः

10.16.056

भ्प्_10.16.056।0 कालिय उवाच
वयं खलाः सहोत्पत्त्या तमसा दीर्घ-मन्यवः ।
स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्-ग्रहः

10.16.057

त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम् ।
नाना-स्वभाव-वीर्यौजो- योनि-बीजाशयाकृति

10.16.058

वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः ।
कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम्

10.16.059

भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः ।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः

10.16.060

भ्प्_10.16.060।0 श्री-शुक उवाच
इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः ।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्व-ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी

10.16.061

य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् ।
कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात्

10.16.062

यो ऽस्मिन् स्नात्वा मद्-आक्रीडे देवादींस् तर्पयेज् जलैः ।
उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते

10.16.063

द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः ।
यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम्

10.16.064

भ्प्_10.16.064।0 श्री-ऋषिर् उवाच
मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा ।
तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम्

10.16.065

दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः ।
दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया

10.16.066

पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् ।
ततः प्रीतो ऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम्

10.16.067

स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह ।
तदैव सामृत-जला यमुना निर्विषाभवत् ।
अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc