भागवत पुराण · अध्याय 10.14
भ्प्_10.14.001।0 श्री-ब्रह्मोवाच
नौमीड्य ते ऽभ्र-वपुषे तडिद्-अम्बराय $ गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय &
नौमीड्य ते ऽभ्र-वपुषे तडिद्-अम्बराय $ गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय &
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- % लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ भ्प्_10.14.001* ॥
अस्यापि देव वपुषो मद्-अनुग्रहस्य स्वेच्छा-मयस्य न तु भूत-मयस्य को ऽपि ।
नेशे महि त्व् अवसितुं मनसान्तरेण साक्षात् तवैव किम् उतात्म-सुखानुभूतेः
ज्ञाने प्रयासम् उदपास्य नमन्त एव $ जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् &अम्प्;
स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् % ये प्रायशो ऽजित जितो ऽप्य् असि तैस् त्रि-लोक्याम् ॥ भ्प्_10.14.003* ॥
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो $ क्लिश्यन्ति ये केवल-बोध-लब्धये &
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो $ क्लिश्यन्ति ये केवल-बोध-लब्धये &
तेषाम् असौ क्लेशल एव शिष्यते % नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ भ्प्_10.14.004* ॥
पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे ऽञ्जो ऽच्युत ते गतिं पराम्
तथापि भूमन् महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः ।
अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्य-बोध्यात्मतया न चान्यथा
गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीऋनस्य क ईशिरे ऽस्य ।
कालेन यैर् वा विमिताः सु-कल्पैर् भू-पांशवः खे मिहिका द्यु-भासः
तत् ते ऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक्
पश्येश मे ऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायि-मायिनि ।
मायां वितत्येक्षितुम् आत्म-वैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ
अतः क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः ।
अजावलेपान्ध-तमो-ऽन्ध-चक्षुष एषो ऽनुकम्प्यो मयि नाथवान् इति
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- $ संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः &अम्प्;
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- % वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ भ्प्_10.14.011* ॥
उत्क्षेपणं गर्भ-गतस्य पादयोः किं कल्पते मातुर् अधोक्षजागसे ।
किम् अस्ति-नास्ति-व्यपदेश-भूषितं तवास्ति कुक्षेः कियद् अप्य् अनन्तः
जगत्-त्रयान्तोदधि-सम्प्लवोदे नारायणस्योदर-नाभि-नालात् ।
विनिर्गतो ऽजस् त्व् इति वाङ् न वै मृषा किन्त्व् ईश्वर त्वन् न विनिर्गतो ऽस्मि
नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी ।
नारायणो ऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया
तच् चेज् जल-स्थं तव सज् जगद्-वपुः $ किं मे न दृष्टं भगवंस् तदैव &अम्प्;
किं वा सु-दृष्टं हृदि मे तदैव % किं नो सपद्य् एव पुनर् व्यदर्शि ॥ भ्प्_10.14.015* ॥
अत्रैव माया-धमनावतारे ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य ।
कृत्स्नस्य चान्तर् जठरे जनन्या मायात्वम् एव प्रकटी-कृतं ते
यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा ।
तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना
अद्यैव त्वद् ऋते ऽस्य किं मम न ते मायात्वम् आदर्शितम् $ एको ऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि &अम्प्;
तावन्तो ऽसि चतुर्-भुजास् तद् अखिलैः साकं मयोपासितास् % तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ भ्प्_10.14.018* ॥
अजानतां त्वत्-पदवीम् अनात्मन्य् आत्मात्मना भासि वितत्य मायाम् ।
सृष्टाव् इवाहं जगतो विधान इव त्वम् एषो ऽन्त इव त्रिनेत्रः
सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि तिर्यक्षु यादःस्व् अपि ते ऽजनस्य ।
जन्मासतां दुर्मद-निग्रहाय प्रभो विधातः सद्-अनुग्रहाय च
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रि-लोक्याम् ।
क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योग-मायाम्
तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं $ स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् &अम्प्;
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते % मायात उद्यद् अपि यत् सद् इवावभाति ॥ भ्प्_10.14.022* ॥
एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं-ज्योतिर् अनन्त आद्यः ।
नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितो ऽमृतः
एवं-विधं त्वां सकलात्मनाम् अपि स्वात्मानम् आत्मात्मतया विचक्षते ।
गुर्व्-अर्क-लब्धोपनिषत्-सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम्
आत्मानम् एवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयो ऽपि च तत् प्रलीयते रज्ज्वाम् अहेर् भोग-भवाभवौ यथा
अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात् ।
अजस्र-चित्य् आत्मनि केवले परे विचार्यमाणे तरणाव् इवाहनी
त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य अहो ऽज्ञ-जनताज्ञता
अन्तर्-भवे ऽनन्त भवन्तम् एव ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः ।
असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण सन्तं गुणं तं किम् उ यन्ति सन्तः
अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन्-महिम्नो न चान्य एको ऽपि चिरं विचिन्वन्
तद् अस्तु मे नाथ स भूरि-भागो भवे ऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहम् एको ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम्
अहो ऽति-धन्या व्रज-गो-रमण्यः स्तन्यामृतं पीतम् अतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना यत्-तृप्तये ऽद्यापि न चालम् अध्वराः
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्
एषां तु भाग्य-महिमाच्युत तावद् आस्ताम् $ एकादशैव हि वयं बत भूरि-भागाः &अम्प्;
एतद्-धृषीक-चषकैर् असकृत् पिबामः % शर्वादयो ऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥ भ्प्_10.14.033* ॥
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां $ यद् गोकुले ऽपि कतमाङ्घ्रि-रजो-ऽभिषेकम् &
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां $ यद् गोकुले ऽपि कतमाङ्घ्रि-रजो-ऽभिषेकम् &
यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् % त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ भ्प्_10.14.034* ॥
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् $ चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति &
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् $ चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति &
सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता % यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ भ्प्_10.14.035* ॥
तावद् रागादयः स्तेनास् तावत् कारा-गृहं गृहम् ।
तावन् मोहो ऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः
प्रपञ्चं निष्प्रपञ्चो ऽपि विडम्बयसि भू-तले ।
प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गो-चरः
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् ।
त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम्
श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् $ क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् &अम्प्;
उद्धर्म-शार्वर-हर क्षिति-राक्षस-ध्रुग् % आ-कल्पम् आर्कम् अर्हन् भगवन् नमस् ते ॥ भ्प्_10.14.040*
0 श्री-शुक उवाच
इत्य् अभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।
नत्वाभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत
ततो ऽनुज्ञाप्य भगवान् स्व-भुवं प्राग् अवस्थितान् ।
वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम्
एकस्मिन्न् अपि याते ऽब्दे प्राणेशं चान्तरात्मनः ।
कृष्ण-मायाहता राजन् क्षणार्धं मेनिरे ऽर्भकाः
किं किं न विस्मरन्तीह माया-मोहित-चेतसः ।
यन्-मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृतात्मकम्
ऊचुश् च सुहृदः कृष्णं स्व्-आगतं ते ऽति-रंहसा ।
नैको ऽप्य् अभोजि कवल एहीतः साधु भुज्यताम्
ततो हसन् हृषीकेशो ऽभ्यवहृत्य सहार्भकैः ।
दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम्
बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः $ प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः &अम्प्;
वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् % गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ भ्प्_10.14.047* ॥
अद्यानेन महा-व्यालो यशोदा-नन्द-सूनुना ।
हतो ऽविता वयं चास्माद् इति बाला व्रजे जगुः
भ्प्_10.14.049।0 श्री-राजोवाच
ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
यो ऽभूत-पूर्वस् तोकेषु स्वोद्भवेष्व् अपि कथ्यताम्
भ्प्_10.14.050।0 श्री-शुक उवाच
सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः ।
इतरे ऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि
तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् ।
न तथा ममतालम्बि- पुत्र-वित्त-गृहादिषु
देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम ।
यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम्
देहो ऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्म-वत् प्रियः ।
यज् जीर्यत्य् अपि देहे ऽस्मिन् जीविताशा बलीयसी
तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् ।
तद्-अर्थम् एव सकलं जगद् एतच् चराचरम्
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया
वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन
सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम्
समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः ।
भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम्
एतत् ते सर्वम् आख्यातं यत् पृष्टो ऽहम् इह त्वया ।
तत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम्
एतत् सुहृद्भिश् चरितं मुरारेर् अघार्दनं शाद्वल-जेमनं च ।
व्यक्तेतरद् रूपम् अजोर्व्-अभिष्टवं शृण्वन् गृणन्न् एति नरो ऽखिलार्थान्
एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे ।
निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0