भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.15

10.15.002

भ्प्_10.15.001।0 श्री-शुक उवाच
ततश् च पौगण्ड-वयः-श्रीतौ व्रजे $ बभूवतुस् तौ पशु-पाल-सम्मतौ &
ततश् च पौगण्ड-वयः-श्रीतौ व्रजे $ बभूवतुस् तौ पशु-पाल-सम्मतौ &
गाश् चारयन्तौ सखिभिः समं पदैर् % वृन्दावनं पुण्यम् अतीव चक्रतुः ॥ भ्प्_10.15.001* ॥
तन् माधवो वेणुम् उदीरयन् वृतो गोपैर् गृणद्भिः स्व-यशो बलान्वितः ।
पशून् पुरस्कृत्य पशव्यम् आविशद् विहर्तु-कामः कुसुमाकरं वनम्

10.15.003

तन् मञ्जु-घोषालि-मृग-द्विजाकुलं महन्-मनः-प्रख्य-पयः-सरस्वता ।
वातेन जुष्टं शत-पत्र-गन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे

10.15.004

स तत्र तत्रारुण-पल्लव-श्रिया फल-प्रसूनोरु-भरेण पादयोः ।
स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्न् इवाहाग्र-जम् आदि-पूरुषः

10.15.005

भ्प्_10.15.005।0 श्री-भगवान् उवाच
अहो अमी देव-वरामरार्चितं पादाम्बुजं ते सुमनः-फलार्हणम् ।
नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमो-ऽपहत्यै तरु-जन्म यत्-कृतम्

10.15.009

एते ऽलिनस् तव यशो ऽखिल-लोक-तीर्थं $ गायन्त आदि-पुरुषानुपथं भजन्ते &अम्प्;
प्रायो अमी मुनि-गणा भवदीय-मुख्या % गूढं वने ऽपि न जहत्य् अनघात्म-दैवम् ॥ भ्प्_10.15.006* ॥
नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः $ कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन &
नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः $ कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन &
सूक्तैश् च कोकिल-गणा गृहम् आगताय % धन्या वनौकस इयान् हि सतां निसर्गः ॥ भ्प्_10.15.007* ॥
धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- $ पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः &
धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- $ पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः &
नद्यो ऽद्रयः खग-मृगाः सदयावलोकैर् % गोप्यो ऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥ भ्प्_10.15.008*
0 श्री-शुक उवाच
एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् ।
रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः

10.15.010

क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः ।
उपगीयमान-चरितः पथि सङ्कर्षणान्वितः

10.15.011_1

अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् ।
क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम्

10.15.011_2

क्वचिच् च काल-हंसानाम् अनुकूजति कूजितम् ।
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित्

10.15.012

मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् ।
क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया

10.15.013

चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः ।
अनुरौति स्म सत्त्वानां भीत-वद् व्याघ्र-सिंहयोः

10.15.014

क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः

10.15.015

नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।
गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः

10.15.016

क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः ।
वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः

10.15.017

पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हत-पाप्मानो व्यजनैः समवीजयन्

10.15.018

अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः

10.15.019

एवं निगूढात्म-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् ।
रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः

10.15.020

श्रीदामा नाम गोपालो राम-केशवयोः सखा ।
सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन्

10.15.021

राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण ।
इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम्

10.15.022

फलानि तत्र भूरीणि पतन्ति पतितानि च ।
सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना

10.15.023

सो ऽति-वीर्यो ऽसुरो राम हे कृष्ण खर-रूप-धृक् ।
आत्म-तुल्य-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः

10.15.024

तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् ।
न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम्

10.15.025

विद्यन्ते ऽभुक्त-पूर्वाणि फलानि सुरभीणि च ।
एष वै सुरभिर् गन्धो विषूचीनो ऽवगृह्यते

10.15.026

प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् ।
वाञ्छास्ति महती राम गम्यतां यदि रोचते

10.15.027

एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया ।
प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू

10.15.028

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।
फलानि पातयाम् आस मतङ्-गज इवौजसा

10.15.029

फलानां पततां शब्दं निशम्यासुर-रासभः ।
अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन्

10.15.030

समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली ।
निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः

10.15.031

पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः ।
चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा

10.15.032

स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना ।
चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम्

10.15.033

तेनाहतो महा-तालो वेपमानो बृहच्-छिराः ।
पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सो ऽपि चापरम्

10.15.034

बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः ।
तालाश् चकम्पिरे सर्वे महा-वातेरिता इव

10.15.035

नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे ।
ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः

10.15.036

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।
क्रोष्टारो ऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः

10.15.037

तांस् तान् आपततः कृष्णो रामश् च नृप लीलया ।
गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु

10.15.038

फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः ।
रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम्

10.15.039

तयोस् तत् सु-महत् कर्म निशम्य विबुधादयः ।
मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः

10.15.040

अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः ।
तृणं च पशवश् चेरुर् हत-धेनुक-कानने

10.15.041

कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः ।
स्तूयमानो ऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत्

10.15.044

तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- $ वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् &अम्प्;
वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं % गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः ॥ भ्प्_10.15.042* ॥
पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् $ तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि &
पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् $ तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि &
तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं % सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ भ्प्_10.15.043* ॥
तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले ।
यथा-कामं यथा-कालं व्यधत्तां परमाशिषः

10.15.045

गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः ।
नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ

10.15.046

जनन्य्-उपहृतं प्राश्य स्वाद्य् अन्नम् उपलालितौ ।
संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे

10.15.047

एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् ।
ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः

10.15.048

अथ गावश् च गोपाश् च निदाघातप-पीडिताः ।
दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम्

10.15.049

विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः ।
निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह

10.15.050

वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः ।
ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत्

10.15.051

ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् ।
आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम्

10.15.052

अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् ।
पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc