भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.13

10.13.001

भ्प्_10.12.044।0 श्री-सूत उवाच
इत्थं स्म पृष्टः स तु बादरायणिस् $ तत्-स्मारितानन्त-हृताखिलेन्द्रियः &
इत्थं स्म पृष्टः स तु बादरायणिस् $ तत्-स्मारितानन्त-हृताखिलेन्द्रियः &
कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः % प्रत्याह तं भागवतोत्तमोत्तम ॥ भ्प्_10.12.044*
0 श्री-शुक उवाच
साधु पृष्टं महा-भाग त्वया भागवतोत्तम ।
यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः

10.13.002

सताम् अयं सार-भृतां निसर्गो यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि ।
प्रति-क्षणं नव्य-वद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता

10.13.003

शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत

10.13.004

तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् ।
सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत्

10.13.005

अहो ऽतिरम्यं पुलिनं वयस्याः स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् ।
स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक- ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम्

10.13.006

अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः ।
वत्साः समीपे ऽपः पीत्वा चरन्तु शनकैस् तृणम्

10.13.007

तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले ।
मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा

10.13.009

कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् $ अभ्याननाः फुल्ल-दृशो व्रजार्भकाः &अम्प्;
सहोपविष्टा विपिने विरेजुश् % छदा यथाम्भोरुह-कर्णिकायाः ॥ भ्प्_10.13.008* ॥
केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः ।
शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः

10.13.010

सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् ।
हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः

10.13.012

बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे $ वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु &अम्प्;
तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः % स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥ भ्प्_10.13.011* ॥
भारतैवं वत्स-पेषु भुञ्जानेष्व् अच्युतात्मसु ।
वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः

10.13.013

तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् ।
मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम्

10.13.014

इत्य् उक्त्वाद्रि-दरी-कुञ्ज- गह्वरेष्व् आत्म-वत्सकान् ।
विचिन्वन् भगवान् कृष्णः सपाणि-कवलो ययौ

10.13.016

अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् $ द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् &अम्प्;
नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा % दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ भ्प्_10.13.015* ॥
ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् ।
उभाव् अपि वने कृष्णो विचिकाय समन्ततः

10.13.017

क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् ।
सर्वं विधि-कृतं कृष्णः सहसावजगाम ह

10.13.018

ततः कृष्णो मुदं कर्तुं तन्-मातॄणां च कस्य च ।
उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः

10.13.020

यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं $ यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् &अम्प्;
यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं % सर्वं विष्णुमयं गिरो ऽङ्ग-वद् अजः सर्व-स्वरूपो बभौ ॥ भ्प्_10.13.019* ॥
स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः ।
क्रीडन्न् आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम्

10.13.021

तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः ।
तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान्

10.13.022

तन्-मातरो वेणु-रव-त्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेह-स्नुत-स्तन्य-पयः-सुधासवं मत्वा परं ब्रह्म सुतान् अपाययन्

10.13.023

ततो नृपोन्मर्दन-मज्ज-लेपना- लङ्कार-रक्षा-तिलकाशनादिभिः ।
संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो याम-यमेन माधवः

10.13.024

गावस् ततो गोष्ठम् उपेत्य सत्वरं हुङ्कार-घोषैः परिहूत-सङ्गतान् ।
स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवद् औधसं पयः

10.13.025

गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना ।
पुरोवद् आस्व् अपि हरेस् तोकता मायया विना

10.13.026

व्रजौकसां स्व-तोकेषु स्नेह-वल्ल्य् आब्दम् अन्वहम् ।
शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत्

10.13.027

इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः ।
पालयन् वत्सपो वर्षं चिक्रीडे वन-गोष्ठयोः

10.13.028

एकदा चारयन् वत्सान् स-रामो वनम् आविशत् ।
पञ्च-षासु त्रि-यामासु हायनापूरणीष्व् अजः

10.13.029

ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् ।
गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम्

10.13.030

दृष्ट्वाथ तत्-स्नेह-वशो ऽस्मृतात्मा स गो-व्रजो ऽत्यात्मप-दुर्ग-मार्गः ।
द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो ऽगाद् धुङ्कृतैर् आस्रु-पया जवेन

10.13.031

समेत्य गावो ऽधो वत्सान् वत्सवत्यो ऽप्य् अपाययन् ।
गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः

10.13.032

गोपास् तद्-रोधनायास- मौघ्य-लज्जोरु-मन्युना ।
दुर्गाध्व-कृच्छ्रतो ऽभ्येत्य गो-वत्सैर् ददृशुः सुतान्

10.13.033

तद्-ईक्षणोत्प्रेम-रसाप्लुताशया जातानुरागा गत-मन्यवो ऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते

10.13.034

ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः ।
कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः

10.13.035

व्रजस्य रामः प्रेमर्धेर् वीक्ष्यौत्कण्ठ्यम् अनुक्षणम् ।
मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत्

10.13.036

किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि ।
व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते

10.13.037

केयं वा कुत आयाता दैवी वा नार्य् उतासुरी ।
प्रायो मायास्तु मे भर्तुर् नान्या मे ऽपि विमोहिनी

10.13.038

इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि ।
सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः

10.13.039

नैते सुरेशा ऋषयो न चैते त्वम् एव भासीश भिद्-आश्रये ऽपि ।
सर्वं पृथक् त्वं निगमात् कथं वदेत्य् उक्तेन वृत्तं प्रभुणा बलो ऽवैत्

10.13.040

तावद् एत्यात्मभूर् आत्म- मानेन त्रुट्य्-अनेहसा ।
पुरोवद् आब्दं क्रीडन्तं ददृशे स-कलं हरिम्

10.13.041

यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि ।
मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः

10.13.042

इत एते ऽत्र कुत्रत्या मन्-माया-मोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम्

10.13.043

एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः ।
सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन

10.13.044

एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् ।
स्वयैव माययाजो ऽपि स्वयम् एव विमोहितः

10.13.045

तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि ।
महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः

10.13.046

तावत् सर्वे वत्स-पालाः पश्यतो ऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः

10.13.047

चतुर्-भुजाः शङ्ख-चक्र- गदा-राजीव-पाणयः ।
किरीटिनः कुण्डलिनो हारिणो वन-मालिनः

10.13.048

श्रीवत्साङ्गद-दो-रत्न- कम्बु-कङ्कण-पाणयः ।
नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः

10.13.049

आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः ।
कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः

10.13.050

चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः ।
स्वकार्थानाम् इव रजः- सत्त्वाभ्यां स्रष्टृ-पालकाः

10.13.051

आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः ।
नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः

10.13.052

अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः ।
चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः

10.13.053

काल-स्वभाव-संस्कार- काम-कर्म-गुणादिभिः ।
स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः

10.13.054

सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः ।
अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम्

10.13.055

एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनो ऽखिलान् ।
यस्य भासा सर्वम् इदं विभाति स-चराचरम्

10.13.056

ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः ।
तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका

10.13.058

इतीरेशे ऽतर्क्ये निज-महिमनि स्व-प्रमितिके $ परत्राजातो ऽतन्-निरसन-मुख-ब्रह्मक-मितौ &अम्प्;
अनीशे ऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति % चच्छादाजो ज्ञात्वा सपदि परमो ऽजा-जवनिकाम् ॥ भ्प्_10.13.057* ॥
ततो ऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः ।
कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना

10.13.059

सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरः-स्थितम् ।
वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम्

10.13.060

यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः ।
मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम्

10.13.063

तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं $ ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् &अम्प्;
वत्सान् सखीन् इव पुरा परितो विचिन्वद् % एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट ॥ भ्प्_10.13.061* ॥
दृष्ट्वा त्वरेण निज-धोरणतो ऽवतीर्य $ पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य &
दृष्ट्वा त्वरेण निज-धोरणतो ऽवतीर्य $ पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य &
स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं % नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् ॥ भ्प्_10.13.062* ॥
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।
आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः

10.13.064

शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः स-वेपथुर् गद्गदयैलतेलया

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc