भागवत पुराण · अध्याय 10.12
भ्प्_10.12.001।0 श्री-शुक उवाच
क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्य-वत्सपान् ।
प्रबोधयञ् छृङ्ग-रवेण चारुणा विनिर्गतो वत्स-पुरःसरो हरिः
तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः ।
स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा
कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् ।
चारयन्तो ऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह
फल-प्रबाल-स्तवक- सुमनः-पिच्छ-धातुभिः ।
काच-गुञ्जा-मणि-स्वर्ण- भूषिता अप्य् अभूषयन्
मुष्णन्तो ऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः ।
तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः
यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् ।
अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे
केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन ।
केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे
विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः ।
बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः
विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् ।
विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु
साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः ।
विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान्
इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो $ धृतात्मभिर् योगिभिर् अप्य् अलभ्यः &अम्प्;
स एव यद्-दृग्-विषयः स्वयं स्थितः % किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ भ्प्_10.12.012* ॥
अथाघ-नामाभ्यपतन् महासुरस् तेषां सुख-क्रीडन-वीक्षणाक्षमः ।
नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते
दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः $ कंसानुशिष्टः स बकी-बकानुजः &अम्प्;
अयं तु मे सोदर-नाश-कृत् तयोर् % द्वयोर् ममैनं स-बलं हनिष्ये ॥ भ्प्_10.12.014* ॥
एते यदा मत्-सुहृदोस् तिलापः कृतास् तदा नष्ट-समा व्रजौकसः ।
प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राण-भृतो हि ये ते
इति व्यवस्याजगरं बृहद् वपुः स योजनायाम-महाद्रि-पीवरम् ।
धृत्वाद्भुतं व्यात्त-गुहाननं तदा पथि व्यशेत ग्रसनाशया खलः
धराधरोष्ठो जलदोत्तरोष्ठो दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः ।
ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः परुषानिल-श्वास-दवेक्षणोष्णः
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् ।
व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया
अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् ।
अस्मत्-सङ्ग्रसन-व्यात्त- व्याल-तुण्डायते न वा
सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् ।
अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम्
प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे ।
तुङ्ग-शृङ्गालयो ऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत
आस्तृतायाम-मार्गो ऽयं रसनां प्रतिगर्जति ।
एषां अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम्
दावोष्ण-खर-वातो ऽयं श्वासवद् भाति पश्यत ।
तद्-दग्ध-सत्त्व-दुर्गन्धो ऽप्य् अन्तर्-आमिष-गन्धवत्
अस्मान् किम् अत्र ग्रसिता निविष्टान् अयं तथा चेद् बकवद् विनङ्क्ष्यति ।
क्षणाद् अनेनेति बकार्य्-उशन्-मुखं वीक्ष्योद्धसन्तः कर-ताडनैर् ययुः
इत्थं मिथो ऽतथ्यम् अतज्-ज्ञ-भाषितं $ श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते &अम्प्;
रक्षो विदित्वाखिल-भूत-हृत्-स्थितः % स्वानां निरोद्धुं भगवान् मनो दधे ॥ भ्प्_10.12.025* ॥
तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः स-वत्साः ।
प्रतीक्षमाणेन बकारि-वेशनं हत-स्व-कान्त-स्मरणेन रक्षसा
तान् वीक्ष्य कृष्णः सकलाभय-प्रदो $ ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् &अम्प्;
दीनांश् च मृत्योर् जठराग्नि-घासान् % घृणार्दितो दिष्ट-कृतेन विस्मितः ॥ भ्प्_10.12.027* ॥
कृत्यं किम् अत्रास्य खलस्य जीवनं $ न वा अमीषां च सतां विहिंसनम् &
कृत्यं किम् अत्रास्य खलस्य जीवनं $ न वा अमीषां च सतां विहिंसनम् &
द्वयं कथं स्याद् इति संविचिन्त्य % ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः ॥ भ्प्_10.12.028* ॥
तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः ।
जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः
तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् ।
चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले
ततो ऽतिकायस्य निरुद्ध-मार्गिणो ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः ।
पूर्णो ऽन्तर्-अङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहिः
तेनैव सर्वेषु बहिर् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् ।
दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर् वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ
पीनाहि-भोगोत्थितम् अद्भुतं महज् ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश ।
प्रतीक्ष्य खे ऽवस्थितम् ईश-निर्गमं विवेश तस्मिन् मिषतां दिवौकसाम्
ततो ऽतिहृष्टाः स्व-कृतो ऽकृतार्हणं $ पुष्पैः सुगा अप्सरसश् च नर्तनैः &अम्प्;
गीतैः सुरा वाद्य-धराश् च वाद्यकैः % स्तवैश् च विप्रा जय-निःस्वनैर् गणाः ॥ भ्प्_10.12.034* ॥
तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका- जयादि-नैकोत्सव-मङ्गल-स्वनान् ।
श्रुत्वा स्व-धाम्नो ऽन्त्य् अज आगतो ऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम्
राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् ।
व्रजौकसां बहु-तिथं बभूवाक्रीड-गह्वरम्
एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् ।
मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे
नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः ।
अघो ऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम्
सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्म-सुखानुभूत्य्-अभि- व्युदस्त-मायो ऽन्तर्-गतो हि किं पुनः
भ्प्_10.12.040।0 श्री-सूत उवाच
इत्थं द्विजा यादवदेव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् ।
पप्रच्छ भूयो ऽपि तद् एव पुण्यं वैयासकिं यन् निगृहीत-चेताः
भ्प्_10.12.041।0 श्री-राजोवाच
ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् ।
यत् कौमारे हरि-कृतं जगुः पौगण्डके ऽर्भकाः
तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो ।
नूनम् एतद् धरेर् एव माया भवति नान्यथा
वयं धन्यतमा लोके गुरो ऽपि क्षत्र-बन्धवः ।
वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0