भागवत पुराण · अध्याय 10.11
भ्प्_10.11.001।0 श्री-शुक उवाच
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।
तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः
भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ ।
बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम्
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।
कस्येदं कुत आश्चर्यम् उत्पात इति कातराः
बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् ।
विकर्षता मध्य-गेन पुरुषाव् अप्य् अचक्ष्महि
न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् ।
बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् ।
विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह
गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् ।
उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत्
बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् ।
बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन्
दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् ।
व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः
क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः ।
फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः
फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् ।
फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च
सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् ।
रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम्
नोपेयातां यदाहूतौ क्रीडा-सङ्गेन पुत्रकौ ।
यशोदां प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम्
क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् ।
यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो ऽसि पुत्रक
हे रामागच्छ ताताशु सानुजः कुल-नन्दन ।
प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।
एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः
धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह ।
जन्मर्क्षं ते ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः
पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् ।
त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः
इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीर् नृप ।
हस्ते गृहीत्वा सह-रामम् अच्युतं नीत्वा स्व-वाटं कृतवत्य् अथोदयम्
भ्प्_10.11.021।0 श्री-शुक उवाच
गोप-वृद्धा महोत्पातान् अनुभूय बृहद्वने ।
नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन्
तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-ऽधिकः ।
देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः
उत्थातव्यम् इतो ऽस्माभिर् गोकुलस्य हितैषिभिः ।
आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः
मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ ।
हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत्
चक्र-वातेन नीतो ऽयं दैत्येन विपदं वियत् ।
शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः
यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः ।
असाव् अन्यतमो वापि तद् अप्य् अच्युत-रक्षणम्
यावद् औत्पातिको ऽरिष्टो व्रजं नाभिभवेद् इतः ।
तावद् बालान् उपादाय यास्यामो ऽन्यत्र सानुगाः
वनं वृन्दावनं नाम पशव्यं नव-काननम् ।
गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम्
तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् ।
गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते
तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः ।
व्रजान् स्वान् स्वान् समायुज्य ययू रूढ-परिच्छदाः
वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।
अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः
गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः ।
तूर्य-घोषेण महता ययुः सह-पुरोहिताः
गोप्यो रूढ-रथा नूत्न- कुच-कुङ्कुम-कान्तयः ।
कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः
तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते ।
रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके
वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् ।
तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत्
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च ।
वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप
एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः ।
कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः
अविदूरे व्रज-भुवः सह गोपाल-दारकैः ।
चारयाम् आसतुर् वत्सान् नाना-क्रीडा-परिच्छदौ
क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।
क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।
अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा
कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः ।
वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत्
तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः ।
दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत्
गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः ।
भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् ।
स कपित्थैर् महा-कायः पात्यमानैः पपात ह
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति ।
देवाश् च परिसन्तुष्टा बभूवुः पुष्प-वर्षिणः
तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ ।
सप्रातर्-आशौ गो-वत्सांश् चारयन्तौ विचेरतुः
स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा ।
गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम्
ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् ।
तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम्
स वै बको नाम महान् असुरो बक-रूप-धृक् ।
आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डो ऽग्रसद् बली
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः
तं तालु-मूलं प्रदहन्तम् अग्निवद् गोपाल-सूनुं पितरं जगद्-गुरोः ।
चच्छर्द सद्यो ऽतिरुषाक्षतं बकस् तुण्डेन हन्तुं पुनर् अभ्यपद्यत
तम् आपतन्तं स निगृह्य तुण्डयोर् दोर्भ्यां बकं कंस-सखं सतां पतिः ।
पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम्
तदा बकारिं सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिकादिभिः ।
समीडिरे चानक-शङ्ख-संस्तवैस् तद् वीक्ष्य गोपाल-सुता विसिस्मिरे
मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः
श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः ।
प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः
अहो बतास्य बालस्य बहवो मृत्यवो ऽभवन् ।
अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम्
अथाप्य् अभिभवन्त्य् एनं नैव ते घोर-दर्शनाः ।
जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत्
अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् ।
गर्गो यद् आह भगवान् अन्वभावि तथैव तत्
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम्
एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे ।
निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0