भागवत पुराण · अध्याय 10.10
भ्प्_10.10.001।0 श्री-राजोवाच
कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् ।
यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः
भ्प्_10.10.002।0 श्री-शुक उवाच
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।
कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ
वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ ।
स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने
अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि ।
चिक्रीडतुर् युवतिभिर् गजाव् इव करेणुभिः
यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव ।
अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शाप-शङ्किताः ।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ
तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ ।
तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ
भ्प्_10.10.008।0 श्री-नारद उवाच
न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः ।
श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः
हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः ।
मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम्
देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् ।
भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः
देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च ।
मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनो ऽपि वा
एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् ।
को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते ऽसतः
असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते
यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् ।
जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः
दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह ।
कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः
नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः ।
इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते
दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः ।
सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति
साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् ।
उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः
तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः ।
तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः
यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ
अतो ऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।
स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात्
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते ।
वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः
भ्प्_10.10.023।0 श्री-शुक उवाच
एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् ।
नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ
ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः ।
जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ
देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ ।
तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना
इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम्
बालेन निष्कर्षयतान्वग् उलूखलं तद् $ दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ &अम्प्;
निष्पेततुः परम-विक्रमितातिवेप- % स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ भ्प्_10.10.027* ॥
तत्र श्रिया परमया ककुभः स्फुरन्तौ $ सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः &
तत्र श्रिया परमया ककुभः स्फुरन्तौ $ सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः &
कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं % बद्धाञ्जली विरजसाव् इदम् ऊचतुः स्म ॥ भ्प्_10.10.028* ॥
कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः ।
व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः
त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः ।
त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः
त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी ।
त्वम् एव पुरुषो ऽध्यक्षः सर्व-क्षेत्र-विकार-वित्
गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः ।
को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्म-द्योत-गुणैश् छन्न- महिम्ने ब्रह्मणे नमः
यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः ।
तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः
स भवान् सर्व-लोकस्य भवाय विभवाय च ।
अवतीर्णो ऽंश-भागेन साम्प्रतं पतिर् आशिषाम्
नमः परम-कल्याण नमः परम-मङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः
अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ ।
दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात्
वाणी गुणानुकथने श्रवणौ कथायां $ हस्तौ च कर्मसु मनस् तव पादयोर् नः &अम्प्;
स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे % दृष्टिः सतां दर्शने ऽस्तु भवत्-तनूनाम् ॥ भ्प्_10.10.038*
0 श्री-शुक उवाच
इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः ।
दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ
भ्प्_10.10.040।0 श्री-भगवान् उवाच
ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना ।
यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशो ऽनुग्रहः कृतः
साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् ।
दर्शनान् नो भवेद् बन्धः पुंसो ऽक्ष्णोः सवितुर् यथा
तद् गच्छतं मत्-परमौ नलकूवर सादनम् ।
सञ्जातो मयि भावो वाम् ईप्सितः परमो ऽभवः
भ्प्_10.10.043।0 श्री-शुक उवाच
इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।
बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0