भागवत पुराण · अध्याय 10.09
भ्प्_10.09.001।0 श्री-शुक उवाच
एकदा गृह-दासीषु यशोदा नन्द-गेहिनी ।
कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि
यानि यानीह गीतानि तद्-बाल-चरितानि च ।
दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं $ पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः &अम्प्;
रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च % स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ भ्प्_10.09.003* ॥
तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन्
तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।
अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते
सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् ।
भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः
उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्-अमत्रकम् ।
भग्नं विलोक्य स्व-सुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती
उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् ।
हैयङ्गवं चौर्य-विशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः
ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् $ ततो ऽवरुह्यापससार भीतवत् &अम्प्;
गोप्य् अन्वधावन् न यम् आप योगिनां % क्षमं प्रवेष्टुं तपसेरितं मनः ॥ भ्प्_10.09.009* ॥
अन्वञ्चमाना जननी बृहच्-चलच्- छ्रोणी-भराक्रान्त-गतिः सुमध्यमा ।
जवेन विस्रंसित-केश-बन्धन- च्युत-प्रसूनानुगतिः परामृशत्
कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना ।
उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत्
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला ।
इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा
न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा
तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।
द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधे ऽन्यच् च गोपिका
यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे ।
तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम्
एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि ।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत्
स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने
एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता ।
स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे
नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया ।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात्
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह
कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः ।
अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ
पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् ।
नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0