भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.08

10.08.001

भ्प्_10.08.001।0 श्री-शुक उवाच
गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः ।
व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः

10.08.002

तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः ।
आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम्

10.08.003

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।
नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम्

10.08.004

महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् ।
निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित्

10.08.005

ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् ।
प्रणीतं भवता येन पुमान् वेद परावरम्

10.08.006

त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि ।
बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः

10.08.007

भ्प्_10.08.007।0 श्री-गर्ग उवाच
यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा ।
सुतं मया संस्कृतं ते मन्यते देवकी-सुतम्

10.08.008

कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः ।
देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति

10.08.009

इति सञ्चिन्तयञ् छ्रुत्वा देवक्या दारिका-वचः ।
अपि हन्ता गताशङ्कस् तर्हि तन् नो ऽनयो भवेत्

10.08.010

भ्प्_10.08.010।0 श्री-नन्द उवाच
अलक्षितो ऽस्मिन् रहसि मामकैर् अपि गो-व्रजे ।
कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम्

10.08.011

भ्प्_10.08.011।0 श्री-शुक उवाच
एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् ।
चकार नाम-करणं गूढो रहसि बालयोः

10.08.012

भ्प्_10.08.012।0 श्री-गर्ग उवाच
अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः ।
आख्यास्यते राम इति बलाधिक्याद् बलं विदुः ।
यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि

10.08.013

आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः

10.08.014

प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः ।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते

10.08.015

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः

10.08.016

एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ

10.08.017

पुरानेन व्रज-पते साधवो दस्यु-पीडिताः ।
अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः

10.08.018

य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः ।
नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः

10.08.019

तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः ।
श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः

10.08.020

भ्प्_10.08.020।0 श्री-शुक उवाच
इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते ।
नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम्

10.08.021

कालेन व्रजताल्पेन गोकुले राम-केशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः

10.08.026

ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ $ घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु &अम्प्;
तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं % मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ भ्प्_10.08.022* ॥
तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ $ पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् &
तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ $ पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् &
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य % मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ भ्प्_10.08.023* ॥
यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् $ अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः &
यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् $ अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः &
वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ % प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ भ्प्_10.08.024* ॥
शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः $ क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् &
शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः $ क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् &
गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ % शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ भ्प्_10.08.025* ॥
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा

10.08.027

ततस् तु भगवान् कृष्णो वयस्यैर् व्रज-बालकैः ।
सह-रामो व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम्

10.08.028

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् ।
शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः

10.08.032

वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः $ स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः &अम्प्;
मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति % द्रव्यालाभे सगृह-कुपितो यात्य् उपक्रोश्य तोकान् ॥ भ्प्_10.08.029* ॥
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् $ छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् &
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् $ छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् &
ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं % काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः ॥ भ्प्_10.08.030* ॥
एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ $ स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते &
एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ $ स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते &
इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर् % व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् ॥ भ्प्_10.08.031* ॥
एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः ।
कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन्

10.08.033

सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी ।
यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत

10.08.034

कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः ।
वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम्

10.08.035

नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः ।
यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम्

10.08.036

यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः ।
व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः

10.08.037

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः ।
साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम्

10.08.038

ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च ।
वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः

10.08.039

एतद् विचित्रं सह-जीव-काल- स्वभाव-कर्माशय-लिङ्ग-भेदम् ।
सूनोस् तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानम् अवाप शङ्काम्

10.08.040

किं स्वप्न एतद् उत देवमाया किं वा मदीयो बत बुद्धि-मोहः ।
अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म-योगः

10.08.041

अथो यथावन् न वितर्क-गोचरं चेतो-मनः-कर्म-वचोभिर् अञ्जसा ।
यद्-आश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्-पदम्

10.08.042

अहं ममासौ पतिर् एष मे सुतो व्रजेश्वरस्याखिल-वित्तपा सती ।
गोप्यश् च गोपाः सह-गोधनाश् च मे यन्-माययेत्थं कुमतिः स मे गतिः

10.08.043

इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः ।
वैष्णवीं व्यतनोन् मायां पुत्र-स्नेहमयीं विभुः

10.08.044

सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् ।
प्रवृद्ध-स्नेह-कलिल- हृदयासीद् यथा पुरा

10.08.045

त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम्

10.08.046

भ्प्_10.08.046।0 श्री-राजोवाच
नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः

10.08.047

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम्

10.08.048

भ्प्_10.08.048।0 श्री-शुक उवाच
द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह

10.08.049

जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत्

10.08.050

अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत्

10.08.051

ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत

10.08.052

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।
सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc