भागवत पुराण · अध्याय 10.07
भ्प्_10.07.001।0 श्री-राजोवाच
येन येनावतारेण भगवान् हरिर् ईश्वरः ।
करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो
यच्-छृण्वतो ऽपैत्य् अरतिर् वितृष्णा सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः ।
भक्तिर् हरौ तत्-पुरुषे च सख्यं तद् एव हारं वद मन्यसे चेत्
अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् ।
मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः
भ्प्_10.07.004।0 श्री-शुक उवाच
कदाचिद् औत्थानिक-कौतुकाप्लवे जन्मर्क्ष-योगे समवेत-योषिताम् ।
वादित्र-गीत-द्विज-मन्त्र-वाचकैश् चकार सूनोर् अभिषेचनं सती
नन्दस्य पत्नी कृत-मज्जनादिकं विप्रैः कृत-स्वस्त्ययनं सुपूजितैः ।
अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः सञ्जात-निद्राक्षम् अशीशयच् छनैः
औत्थानिकौत्सुक्य-मना मनस्विनी समागतान् पूजयती व्रजौकसः ।
नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणाव् उदक्षिपत्
अधः-शयानस्य शिशोर् अनो ऽल्पक- प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत ।
विध्वस्त-नाना-रस-कुप्य-भाजनं व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम्
दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय $ औत्थानिके कर्मणि याः समागताः &अम्प्;
नन्दादयश् चाद्भुत-दर्शनाकुलाः % कथं स्वयं वै शकटं विपर्यगात् ॥ भ्प्_10.07.008* ॥
ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः ।
रुदतानेन पादेन क्षिप्तम् एतन् न संशयः
न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्य् उत ।
अप्रमेयं बलं तस्य बालकस्य न ते विदुः
रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता ।
कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्
पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् ।
विप्रा हुत्वार्चयां चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः
ये ऽसूयानृत-दम्भेर्षा- हिंसा-मान-विवर्जिताः ।
न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः
इति बालकम् आदाय सामर्ग्-यजुर्-उपाकृतैः ।
जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः
वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः ।
हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम्
गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः ।
आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत
विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः ।
ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम्
एकदारोहम् आरूढं लालयन्ती सुतं सती ।
गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत्
भूमौ निधाय तं गोपी विस्मिता भार-पीडिता ।
महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु
दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः ।
चक्रवात-स्वरूपेण जहारासीनम् अर्भकम्
गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः ।
ईरयन् सुमहा-घोर- शब्देन प्रदिशो दिशः
मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् ।
सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः
नापश्यत् कश्चनात्मानं परं चापि विमोहितः ।
तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः
इति खर-पवन-चक्र-पांशु-वर्षे सुत-पदवीम् अबलाविलक्ष्य माता ।
अतिकरुणम् अनुस्मरन्त्य् अशोचद् भुवि पतिता मृत-वत्सका यथा गौः
रुदितम् अनुनिशम्य तत्र गोप्यो भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः ।
रुरुदुर् अनुपलभ्य नन्द-सूनुं पवन उपारत-पांशु-वर्ष-वेगे
तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् ।
कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत्
तम् अश्मानं मन्यमान आत्मनो गुरु-मत्तया ।
गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम्
गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः ।
अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे
तम् अन्तरिक्षात् पतितं शिलायां विशीर्ण-सर्वावयवं करालम् ।
पुरं यथा रुद्र-शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः
प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् ।
तं स्वस्तिमन्तं पुरुषाद-नीतं विहायसा मृत्यु-मुखात् प्रमुक्तम् ।
गोप्यश् च गोपाः किल नन्द-मुख्या लब्ध्वा पुनः प्रापुर् अतीव मोदम्
अहो बतात्य्-अद्भुतम् एष रक्षसा बालो निवृत्तिं गमितो ऽभ्यगात् पुनः ।
हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते
किं नस् तपश् चीर्णम् अधोक्षजार्चनं $ पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् &अम्प्;
यत् सम्परेतः पुनर् एव बालको % दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः ॥ भ्प्_10.07.032* ॥
दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्वने ।
वसुदेव-वचो भूयो मानयाम् आस विस्मितः
एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी ।
प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता
पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् ।
मुखं लालयती राजञ् जृम्भतो ददृशे इदम्
खं रोदसी ज्योतिर्-अनीकम् आशाः सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च ।
द्वीपान् नगांस् तद्-दुहितॄर् वनानि भूतानि यानि स्थिर-जङ्गमानि
सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः ।
सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0