भागवत पुराण · अध्याय 10.06
भ्प्_10.06.001।0 श्री-शुक उवाच
नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् ।
हरिं जगाम शरणम् उत्पातागम-शङ्कितः
कंसेन प्रहिता घोरा पूतना बाल-घातिनी ।
शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु
न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु ।
कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि
सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् ।
योषित्वा माययात्मानं प्राविशत् काम-चारिणी
तां केश-बन्ध-व्यतिषक्त-मल्लिकां $ बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् &अम्प्;
सुवाससं कल्पित-कर्ण-भूषण- % त्विषोल्लसत्-कुन्तल-मण्डिताननाम् ॥ भ्प्_10.06.005* ॥
वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् $ मनो हरन्तीं वनितां व्रजौकसाम् &
वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् $ मनो हरन्तीं वनितां व्रजौकसाम् &
अमंसताम्भोज-करेण रूपिणीं % गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ भ्प्_10.06.006* ॥
बाल-ग्रहस् तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे ऽसद्-अन्तकम् ।
बालं प्रतिच्छन्न-निजोरु-तेजसं ददर्श तल्पे ऽग्निम् इवाहितं भसि
विबुध्य तां बालक-मारिका-ग्रहं चराचरात्मा स निमीलितेक्षणः ।
अनन्तम् आरोपयद् अङ्कम् अन्तकं यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः
तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां वीक्ष्यान्तरा कोष-परिच्छदासिवत् ।
वर-स्त्रियं तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम्
तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं $ घोराङ्कम् आदाय शिशोर् ददाव् अथ &अम्प्;
गाढं कराभ्यां भगवान् प्रपीड्य तत्- % प्राणैः समं रोष-समन्वितो ऽपिबत् ॥ भ्प्_10.06.010* ॥
सा मुञ्च मुञ्चालम् इति प्रभाषिणी निष्पीड्यमानाखिल-जीव-मर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न-गात्रा क्षिपती रुरोद ह
तस्याः स्वनेनातिगभीर-रंहसा साद्रिर् मही द्यौश् च चचाल स-ग्रहा ।
रसा दिशश् च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया
निशा-चरीत्थं व्यथित-स्तना व्यसुर् $ व्यादाय केशांश् चरणौ भुजाव् अपि &अम्प्;
प्रसार्य गोष्ठे निज-रूपम् आस्थिता % वज्राहतो वृत्र इवापतन् नृप ॥ भ्प्_10.06.013* ॥
पतमानो ऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् ।
चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम्
ईषा-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् ।
गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम्
अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् ।
बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम्
सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् ।
पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः
बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् ।
गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः
यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः ।
रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः
गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् ।
रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः
गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् ।
न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत
अव्याद् अजो ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू $ यज्ञो ऽच्युतः कटि-तटं जठरं हयास्यः &अम्प्;
हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं % विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् ॥ भ्प्_10.06.022* ॥
चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् $ त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च &
चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् $ त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च &
कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् % तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ भ्प्_10.06.023* ॥
इन्द्रियाणि हृषीकेशः प्राणान् नारायणो ऽवतु ।
श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरो ऽवतु
पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः
व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः
डाकिन्यो यातुधान्यश् च कुष्माण्डा ये ऽर्भक-ग्रहाः ।
भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः
स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये ।
सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः
भ्प्_10.06.030।0 श्री-शुक उवाच
इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् ।
पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम्
तावन् नन्दादयो गोपा मथुराया व्रजं गताः ।
विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः
नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।
स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः
कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः ।
दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठ-वेष्टितम्
दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः ।
उत्थितः कृष्ण-निर्भुक्त- सपद्य् आहत-पाप्मनः
पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम्
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा
पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः ।
अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम्
यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् ।
कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो ऽनुमातरः
पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् ।
भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः
तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
न पुनः कल्पते राजन् संसारो ऽज्ञान-सम्भवः
कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः ।
किम् इदं कुत एवेति वदन्तो व्रजम् आययुः
ते तत्र वर्णितं गोपैः पूतनागमनादिकम् ।
श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह
य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् ।
शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0