भागवत पुराण · अध्याय 10.05
भ्प्_10.05.001।0 श्री-शुक उवाच
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ।
आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः
वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै ।
कारयाम् आस विधिवत् पितृ-देवार्चनं तथा
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन् सप्त रत्नौघ- शातकौम्भाम्बरावृतान्
कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया ।
शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया
सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः ।
गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः
व्रजः सम्मृष्ट-संसिक्त- द्वाराजिर-गृहान्तरः ।
चित्र-ध्वज-पताका-स्रक्- चैल-पल्लव-तोरणैः
गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः ।
विचित्र-धातु-बर्हस्रग्- वस्त्र-काञ्चन-मालिनः
महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः ।
गोपाः समाययू राजन् नानोपायन-पाणयः
गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः
नव-कुङ्कुम-किञ्जल्क- मुख-पङ्कज-भूतयः ।
बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः
गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश् $ चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः &अम्प्;
नन्दालयं स-वलया व्रजतीर् विरेजुर् % व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥ भ्प्_10.05.011* ॥
ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके ।
हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्यो ऽजनम् उज्जगुः
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।
कृष्णे विश्वेश्वरे ऽनन्ते नन्दस्य व्रजम् आगते
गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः ।
आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः
नन्दो महा-मनास् तेभ्यो वासो ऽलङ्कार-गो-धनम् ।
सूत-मागध-वन्दिभ्यो ये ऽन्ये विद्योपजीविनः
तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् ।
विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च
रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता ।
व्यचरद् दिव्य-वास-स्रक्- कण्ठाभरण-भूषिता
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप
गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः ।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह
वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् ।
ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम्
तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् ।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः
पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः ।
प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते
दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते ।
प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत
दिष्ट्या संसार-चक्रे ऽस्मिन् वर्तमानः पुनर्-भवः ।
उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम्
नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् ।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा
कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् ।
बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः
भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः
पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः ।
न तेषु क्लिश्यमानेषु त्रि-वर्गो ऽर्थाय कल्पते
भ्प्_10.05.029।0 श्री-नन्द उवाच
अहो ते देवकी-पुत्राः कंसेन बहवो हताः ।
एकावशिष्टावरजा कन्या सापि दिवं गता
नूनं ह्य् अदृष्ट-निष्ठो ऽयम् अदृष्ट-परमो जनः ।
अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति
भ्प्_10.05.031।0 श्री-वसुदेव उवाच
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः ।
नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले
भ्प्_10.05.032।0 श्री-शुक उवाच
इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः ।
अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0