भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.04

10.04.001

भ्प्_10.04.001।0 श्री-शुक उवाच
बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः ।
ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः

10.04.002

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् ।
आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते

10.04.003

स तल्पात् तूर्णम् उत्थाय कालो ऽयम् इति विह्वलः ।
सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः

10.04.004

तम् आह भ्रातरं देवी कृपणा करुणं सती ।
स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि

10.04.005

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।
त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम्

10.04.006

नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो ।
दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम्

10.04.007

भ्प्_10.04.007।0 श्री-शुक उवाच
उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् ।
याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः

10.04.008

तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् ।
अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः

10.04.009

सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता ।
अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा

10.04.010

दिव्य-स्रग्-अम्बरालेप- रत्नाभरण-भूषिता ।
धनुः-शूलेषु-चर्मासि- शङ्ख-चक्र-गदा-धरा

10.04.011

सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः ।
उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत्

10.04.012

किं मया हतया मन्द जातः खलु तवान्त-कृत् ।
यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा

10.04.013

इति प्रभाष्य तं देवी माया भगवती भुवि ।
बहु-नाम-निकेतेषु बहु-नामा बभूव ह

10.04.014

तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः ।
देवकीं वसुदेवं च विमुच्य प्रश्रितो ऽब्रवीत्

10.04.015

अहो भगिन्य् अहो भाम मया वां बत पाप्मना ।
पुरुषाद इवापत्यं बहवो हिंसिताः सुताः

10.04.016

स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः ।
कान् लोकान् वै गमिष्यामि ब्रह्म-हेव मृतः श्वसन्

10.04.017

दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् ।
यद्-विश्रम्भाद् अहं पापः स्वसुर् निहतवाञ् छिशून्

10.04.018

मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः ।
जान्तवो न सदैकत्र दैवाधीनास् तदासते

10.04.019

भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च ।
नायम् आत्मा तथैतेषु विपर्येति यथैव भूः

10.04.020

यथानेवं-विदो भेदो यत आत्म-विपर्ययः ।
देह-योग-वियोगौ च संसृतिर् न निवर्तते

10.04.021

तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि ।
मानुशोच यतः सर्वः स्व-कृतं विन्दते ऽवशः

10.04.022

यावद् धतो ऽस्मि हन्तास्मी- त्य् आत्मानं मन्यते ऽस्व-दृक् ।
तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात्

10.04.023

क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः ।
इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत्

10.04.024

मोचयाम् आस निगडाद् विश्रब्धः कन्यका-गिरा ।
देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम्

10.04.025

भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी ।
व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह

10.04.026

एवम् एतन् महा-भाग यथा वदसि देहिनाम् ।
अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः

10.04.027

शोक-हर्ष-भय-द्वेष- लोभ-मोह-मदान्विताः ।
मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः

10.04.028

भ्प्_10.04.028।0 श्री-शुक उवाच
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।
देवकी-वसुदेवाभ्याम् अनुज्ञातो ऽविशद् गृहम्

10.04.029

तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।
तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया

10.04.030

आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः ।
देवान् प्रति कृतामर्षा दैतेया नाति-कोविदाः

10.04.031

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु ।
अनिर्दशान् निर्दशांश् च हनिष्यामो ऽद्य वै शिशून्

10.04.032

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः ।
नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव

10.04.033

अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः ।
जिजीविषव उत्सृज्य पलायन-परा ययुः

10.04.034

केचित् प्राञ्जलयो दीना न्यस्त-शस्त्रा दिवौकसः ।
मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः

10.04.035

न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् ।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः

10.04.036

किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः ।
रहो-जुषा किं हरिणा शम्भुना वा वनौकसा ।
किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता

10.04.037

तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे ।
ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान्

10.04.038

यथामयो ऽङ्गे समुपेक्षितो नृभिर् न शक्यते रूढ-पदश् चिकित्सितुम् ।
यथेन्द्रिय-ग्राम उपेक्षितस् तथा रिपुर् महान् बद्ध-बलो न चाल्यते

10.04.039

मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः ।
तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः

10.04.040

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः ।
तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः

10.04.041

विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः ।
श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः

10.04.042

स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः ।
तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः ।
अयं वै तद्-वधोपायो यद् ऋषीणां विहिंसनम्

10.04.043

भ्प्_10.04.043।0 श्री-शुक उवाच
एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।
ब्रह्म-हिंसां हितं मेने काल-पाशावृतो ऽसुरः

10.04.044

सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् ।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत्

10.04.045

ते वै रजः-प्रकृतयस् तमसा मूढ-चेतसः ।
सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः

10.04.046

आयुः श्रियं यशो धर्मं लोकान् आशिष एव च ।
हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc