भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.03

10.03.001

भ्प्_10.03.001।0 श्री-शुक उवाच
अथ सर्व-गुणोपेतः कालः परम-शोभनः ।
यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम्

10.03.002

दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् ।
मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा

10.03.003

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः ।
द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः

10.03.004

ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः ।
अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत

10.03.005

मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् ।
जायमाने ऽजने तस्मिन् नेदुर् दुन्दुभयः समम्

10.03.006

जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः ।
विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा

10.03.007

मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः ।
मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम्

10.03.008

निशीथे तम-उद्भूते जायमाने जनार्दने ।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः ।
आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः

10.03.009

तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् ।
श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं पीताम्बरं सान्द्र-पयोद-सौभगम्

10.03.010

महार्ह-वैदूर्य-किरीट-कुण्डल- त्विषा परिष्वक्त-सहस्र-कुन्तलम् ।
उद्दाम-काञ्च्य्-अङ्गद-कङ्कणादिभिर् विरोचमानं वसुदेव ऐक्षत

10.03.011

स विस्मयोत्फुल्ल-विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस् तदा ।
कृष्णावतारोत्सव-सम्भ्रमो ऽस्पृशन् मुदा द्विजेभ्यो ऽयुतम् आप्लुतो गवाम्

10.03.012

अथैनम् अस्तौद् अवधार्य पूरुषं परं नताङ्गः कृत-धीः कृताञ्जलिः ।
स्व-रोचिषा भारत सूतिका-गृहं विरोचयन्तं गत-भीः प्रभाव-वित्

10.03.013

भ्प्_10.03.013।0 श्री-वसुदेव उवाच
विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः ।
केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक्

10.03.014

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् ।
तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे

10.03.015

यथेमे ऽविकृता भावास् तथा ते विकृतैः सह ।
नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि

10.03.016

सन्निपत्य समुत्पाद्य दृश्यन्ते ऽनुगता इव ।
प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः

10.03.017

एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर् ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः ।
अनावृतत्वाद् बहिर् अन्तरं न ते सर्वस्य सर्वात्मन आत्म-वस्तुनः

10.03.018

य आत्मनो दृश्य-गुणेषु सन्न् इति व्यवस्यते स्व-व्यतिरेकतो ऽबुधः ।
विनानुवादं न च तन् मनीषितं सम्यग् यतस् त्यक्तम् उपाददत् पुमान्

10.03.021

त्वत्तो ऽस्य जन्म-स्थिति-संयमान् विभो $ वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् &अम्प्;
त्वयीश्वरे ब्रह्मणि नो विरुध्यते % त्वद्-आश्रयत्वाद् उपचर्यते गुणैः ॥ भ्प्_10.03.019* ॥
स त्वं त्रि-लोक-स्थितये स्व-मायया $ बिभर्षि शुक्लं खलु वर्णम् आत्मनः &
स त्वं त्रि-लोक-स्थितये स्व-मायया $ बिभर्षि शुक्लं खलु वर्णम् आत्मनः &
सर्गाय रक्तं रजसोपबृंहितं % कृष्णं च वर्णं तमसा जनात्यये ॥ भ्प्_10.03.020* ॥
त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहे ऽवतीर्णो ऽसि ममाखिलेश्वर ।
राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः

10.03.023

अयं त्व् असभ्यस् तव जन्म नौ गृहे $ श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर &अम्प्;
स ते ऽवतारं पुरुषैः समर्पितं % श्रुत्वाधुनैवाभिसरत्य् उदायुधः ॥ भ्प्_10.03.022*
0 श्री-शुक उवाच
अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् ।
देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता

10.03.025

भ्प्_10.03.024।0 श्री-देवक्य् उवाच
रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं $ ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् &
रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं $ ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् &
सत्ता-मात्रं निर्विशेषं निरीहं % स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥ भ्प्_10.03.024* ॥
नष्टे लोके द्वि-परार्धावसाने महा-भूतेष्व् आदि-भूतं गतेषु ।
व्यक्ते ऽव्यक्तं काल-वेगेन याते भवान् एकः शिष्यते ऽशेष-संज्ञः

10.03.027

यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो $ चेष्टाम् आहुश् चेष्टते येन विश्वम् &अम्प्;
निमेषादिर् वत्सरान्तो महीयांस् % तं त्वेशानं क्षेम-धाम प्रपद्ये ॥ भ्प्_10.03.026* ॥
मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति

10.03.028

स त्वं घोराद् उग्रसेनात्मजान् नस् त्राहि त्रस्तान् भृत्य-वित्रास-हासि ।
रूपं चेदं पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः

10.03.029

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।
समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः

10.03.030

उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् ।
शङ्ख-चक्र-गदा-पद्म- श्रिया जुष्टं चतुर्-भुजम्

10.03.031

विश्वं यद् एतत् स्व-तनौ निशान्ते यथावकाशं पुरुषः परो भवान् ।
बिभर्ति सो ऽयं मम गर्भगो ऽभूद् अहो नृ-लोकस्य विडम्बनं हि तत्

10.03.032

भ्प्_10.03.032।0 श्री-भगवान् उवाच
त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः

10.03.033

युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः ।
सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः

10.03.034

वर्ष-वातातप-हिम- घर्म-काल-गुणान् अनु ।
सहमानौ श्वास-रोध- विनिर्धूत-मनो-मलौ

10.03.035

शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा ।
मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः

10.03.036

एवं वां तप्यतोस् तीव्रं तपः परम-दुष्करम् ।
दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः

10.03.037

तदा वां परितुष्टो ऽहम् अमुना वपुषानघे ।
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः

10.03.038

प्रादुरासं वरद-राड् युवयोः काम-दित्सया ।
व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः

10.03.039

अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती ।
न वव्राथे ऽपवर्गं मे मोहितौ देव-मायया

10.03.040

गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् ।
ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ

10.03.041

अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् ।
अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः

10.03.042

तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः

10.03.043

तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् ।
जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति

10.03.044

एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे ।
नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते

10.03.045

युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् ।
चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम्

10.03.046

भ्प्_10.03.046।0 श्री-शुक उवाच
इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया ।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः

10.03.048

ततश् च शौरिर् भगवत्-प्रचोदितः $ सुतं समादाय स सूतिका-गृहात् &अम्प्;
यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा % या योगमायाजनि नन्द-जायया ॥ भ्प्_10.03.047* ॥
तया हृत-प्रत्यय-सर्व-वृत्तिषु द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ ।
द्वारश् च सर्वाः पिहिता दुरत्यया बृहत्-कपाटायस-कील-शृङ्खलैः

10.03.049

ताः कृष्ण-वाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः ।
ववर्ष पर्जन्य उपांशु-गर्जितः शेषो ऽन्वगाद् वारि निवारयन् फणैः

10.03.050

मघोनि वर्षत्य् असकृद् यमानुजा गम्भीर-तोयौघ-जवोर्मि-फेनिला ।
भयानकावर्त-शताकुला नदी मार्गं ददौ सिन्धुर् इव श्रियः पतेः

10.03.052

नन्द-व्रजं शौरिर् उपेत्य तत्र तान् $ गोपान् प्रसुप्तान् उपलभ्य निद्रया &अम्प्;
सुतं यशोदा-शयने निधाय तत्- % सुताम् उपादाय पुनर् गृहान् अगात् ॥ भ्प्_10.03.051* ॥
देवक्याः शयने न्यस्य वसुदेवो ऽथ दारिकाम् ।
प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः

10.03.053

यशोदा नन्द-पत्नी च जातं परम् अबुध्यत ।
न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc