भागवत पुराण · अध्याय 10.02
भ्प्_10.02.001।0 श्री-शुक उवाच
प्रलम्ब-बक-चाणूर- तृणावर्त-महाशनैः ।
मुष्टिकारिष्ट-द्विविद- पूतना-केशी-धेनुकैः
अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः ।
यदूनां कदनं चक्रे बली मागध-संश्रयः
ते पीडिता निविविशुः कुरु-पञ्चाल-केकयान् ।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि
एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते ।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना
सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः
भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् ।
यदूनां निज-नाथानां योगमायां समादिशत्
गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् ।
रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले ।
अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि
देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ।
तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय
अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे ।
प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि
अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् ।
धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम्
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।
दुर्गेति भद्रकालीति विजया वैष्णवीति च
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्य् अम्बिकेति च
गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि ।
रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात्
सन्दिष्टैवं भगवता तथेत्य् ओम् इति तद्-वचः ।
प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत्
गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया ।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः
भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः ।
आविवेशांश-भागेन मन आनकदुन्दुभेः
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः ।
दुरासदो ऽतिदुर्धर्षो भूतानां सम्बभूव ह
ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी ।
दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः
सा देवकी सर्व-जगन्-निवास- निवास-भूता नितरां न रेजे ।
भोजेन्द्र-गेहे ऽग्नि-शिखेव रुद्धा सरस्वती ज्ञान-खले यथा सती
तां वीक्ष्य कंसः प्रभयाजितान्तरां $ विरोचयन्तीं भवनं शुचि-स्मिताम् &अम्प्;
आहैष मे प्राण-हरो हरिर् गुहां % ध्रुवं श्रितो यन् न पुरेयम् ईदृशी ॥ भ्प्_10.02.020* ॥
किम् अद्य तस्मिन् करणीयम् आशु मे यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् ।
स्त्रियाः स्वसुर् गुरुमत्या वधो ऽयं यशः श्रियं हन्त्य् अनुकालम् आयुः
स एष जीवन् खलु सम्परेतो वर्तेत यो ऽत्यन्त-नृशंसितेन ।
देहे मृते तं मनुजाः शपन्ति गन्ता तमो ऽन्धं तनु-मानिनो ध्रुवम्
इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः ।
आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत्
आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् ।
चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत्
ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः ।
देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन्
सत्य-व्रतं सत्य-परं त्रि-सत्यं $ सत्यस्य योनिं निहितं च सत्ये &अम्प्;
सत्यस्य सत्यम् ऋत-सत्य-नेत्रं % सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ भ्प्_10.02.026* ॥
एकायनो ऽसौ द्वि-फलस् त्रि-मूलश् चतू-रसः पञ्च-विधः षड्-आत्मा ।
सप्त-त्वग् अष्ट-विटपो नवाक्षो दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः
त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च ।
त्वन्-मायया संवृत-चेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये
बिभर्षि रूपाण्य् अवबोध आत्मा क्षेमाय लोकस्य चराचरस्य ।
सत्त्वोपपन्नानि सुखावहानि सताम् अभद्राणि मुहुः खलानाम्
त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि समाधिनावेशित-चेतसैके ।
त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम्
स्वयं समुत्तीर्य सुदुस्तरं द्युमन् $ भवार्णवं भीमम् अदभ्र-सौहृदाः &अम्प्;
भवत्-पदाम्भोरुह-नावम् अत्र ते % निधाय याताः सद्-अनुग्रहो भवान् ॥ भ्प्_10.02.031* ॥
ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् $ त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः &
ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् $ त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः &
आरुह्य कृच्छ्रेण परं पदं ततः % पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ भ्प्_10.02.032* ॥
तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ $ शरीरिणां श्रेय-उपायनं वपुः &अम्प्;
वेद-क्रिया-योग-तपः-समाधिभिस् % तवार्हणं येन जनः समीहते ॥ भ्प्_10.02.034* ॥
सत्त्वं न चेद् धातर् इदं निजं भवेद् $ विज्ञानम् अज्ञान-भिदापमार्जनम् &
सत्त्वं न चेद् धातर् इदं निजं भवेद् $ विज्ञानम् अज्ञान-भिदापमार्जनम् &
गुण-प्रकाशैर् अनुमीयते भवान् % प्रकाशते यस्य च येन वा गुणः ॥ भ्प्_10.02.035* ॥
न नाम-रूपे गुण-जन्म-कर्मभिर् निरूपितव्ये तव तस्य साक्षिणः ।
मनो-वचोभ्याम् अनुमेय-वर्त्मनो देव क्रियायां प्रतियन्त्य् अथापि हि
शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् $ नामानि रूपाणि च मङ्गलानि ते &अम्प्;
क्रियासु यस् त्वच्-चरणारविन्दयोर् % आविष्ट-चेता न भवाय कल्पते ॥ भ्प्_10.02.037* ॥
दिष्ट्या हरे ऽस्या भवतः पदो भुवो $ भारो ऽपनीतस् तव जन्मनेशितुः &
दिष्ट्या हरे ऽस्या भवतः पदो भुवो $ भारो ऽपनीतस् तव जन्मनेशितुः &
दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर् % द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ भ्प्_10.02.038* ॥
न ते ऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे ।
भवो निरोधः स्थितिर् अप्य् अविद्यया कृता यतस् त्वय्य् अभयाश्रयात्मनि
मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस- $ राजन्य-विप्र-विबुधेषु कृतावतारः &अम्प्;
त्वं पासि नस् त्रि-भुवनं च यथाधुनेश % भारं भुवो हर यदूत्तम वन्दनं ते ॥ भ्प्_10.02.040* ॥
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् $ अंशेन साक्षाद् भगवान् भवाय नः &
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् $ अंशेन साक्षाद् भगवान् भवाय नः &
माभूद् भयं भोज-पतेर् मुमूर्षोर् % गोप्ता यदूनां भविता तवात्मजः ॥ भ्प्_10.02.041*
0 श्री-शुक उवाच
इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा ।
ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0