भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.11

09.11.001

भ्प्_09.11.001।0 श्रीशुक उवाच
भगवान् आत्मनात्मानं राम उत्तमकल्पकैः ।
सर्वदेवमयं देवमीजे ऽथाचार्यवान् मखैः

09.11.002

होत्रे ऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।
अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः

09.11.003

आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
अन्यमान इदं कृत्स्नं ब्राह्मणो ऽर्हति निःस्पृहः

09.11.004

इत्ययं तदलङ्कार वासोभ्यामवशेषितः ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता

09.11.005

ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे

09.11.006

अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
यन् नो ऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा

09.11.007

नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये

09.11.008

कदाचिल् लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः ।
चरन् वाचो ऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित्

09.11.009

नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः

09.11.010

इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः ।
पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम्

09.11.011

अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः

09.11.012

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्यास्तां भरतस्य महीपते

09.11.013

सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम्

09.11.014

तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम्

09.11.015

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह

09.11.016

तच् छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद्रोद्धुमीश्वरः

09.11.017

स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः

09.11.018

तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभुः ।
त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम्

09.11.019

स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः ।
स्वपादपल्लवं राम आत्मज्योतिरगात् ततः

09.11.022

नेदं यशो रघुपतेः सुरयाच्ञयात्त $ लीलातनोरधिकसाम्यविमुक्तधाम्नः &अम्प्;
रक्षोवधो जलधिबन्धनमस्त्रपूगैः % किं तस्य शत्रुहनने कपयः सहायाः ॥ भ्प्_09.10.020* ॥
यस्यामलं नृपसदःसु यशो ऽधुनापि $ गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् &
यस्यामलं नृपसदःसु यशो ऽधुनापि $ गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् &
तं नाकपालवसुपालकिरीटजुष्ट % पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ भ्प्_09.11.021* ॥
स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा ।
कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः

09.11.023

पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते

09.11.024

भ्प्_09.11.024।0 श्रीराजोवाच
कथं स भगवान् रामो भ्रात्-न् वा स्वयमात्मनः ।
तस्मिन् वा ते ऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे

09.11.025

भ्प्_09.11.025।0 श्रीबादरायणिरुवाच
अथादिशद्दिग्विजये भ्रात्-ंस्त्रिभुवनेश्वरः ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः

09.11.026

आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव

09.11.027

प्रासादगोपुरसभा चैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम्

09.11.028

पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।
आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम्

09.11.029

तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः ।
आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम्

09.11.030

ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।
आरुह्य हर्म्याण्यरविन्दलोचनम् अतृप्तनेत्राः कुसुमैरवाकिरन्

09.11.031

अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।
अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम्

09.11.032

विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः ।
स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः

09.11.033

चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः ।
मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः

09.11.034

धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः ।
स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः

09.11.035

तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभः सीतया किल

09.11.036

बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
वर्षपूगान् बहून् नॄणामभिध्याताङ्घ्रिपल्लवः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc