भागवत पुराण · अध्याय 09.12
भ्प्_09.12.001।0 श्रीशुक उवाच
कुशस्य चातिथिस्तस्मान् निषधस्तत्सुतो नभः ।
पुण्डरीको ऽथ तत्पुत्रः क्षेमधन्वाभवत् ततः
देवानीकस्ततो ऽनीहः पारियात्रो ऽथ तत्सुतः ।
ततो बलस्थलस्तस्माद्वज्रनाभो ऽर्कसम्भवः
सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत् सुतः ।
ततो हिरण्यनाभो ऽभूद्योगाचार्यस्तु जैमिनेः
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्यो ऽध्यगाद्यतः ।
योगं महोदयमृषिर्हृदयग्रन्थिभेदकम्
पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततो ऽभवत् ।
सुदर्शनो ऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः
सो ऽसाव् आस्ते योगसिद्धः कलापग्राममास्थितः ।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः
तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः ।
महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।
ततो बृहद्बलो यस्तु पित्रा ते समरे हतः
एते हीक्ष्वाकुभूपाला अतीताः शृण्व् अनागतान् ।
बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः
ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः
सहदेवस्ततो वीरो बृहदश्वो ऽथ भानुमान् ।
प्रतीकाश्वो भानुमतः सुप्रतीको ऽथ तत्सुतः
भविता मरुदेवो ऽथ सुनक्षत्रो ऽथ पुष्करः ।
तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित्
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ।
रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः
तस्माच् छाक्यो ऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः ।
ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः
रणको भविता तस्मात् सुरथस्तनयस्ततः ।
सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0