भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.10

09.10.001

भ्प्_09.10.001।0 श्रीशुक उवाच
खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।
अजस्ततो महाराजस्तस्माद्दशरथो ऽभवत्

09.10.002

तस्यापि भगवान् एष साक्षाद्ब्रह्ममयो हरिः ।
अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।
रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया

09.10.003

तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः ।
श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः

09.10.005

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः $ पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् &अम्प्;
वैरूप्याच् छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ % त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रो ऽवतान् नः ॥ भ्प्_09.10.004* ॥
विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।
पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः

09.10.024

यो लोकवीरसमितौ धनुरैशमुग्रं $ सीतास्वयंवरगृहे त्रिशतोपनीतम् &अम्प्;
आदाय बालगजलील इवेक्षुयष्टिं % सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ भ्प्_09.10.006* ॥
जित्वानुरूपगुणशीलवयो ऽङ्गरूपां $ सीताभिधां श्रियमुरस्यभिलब्धमानाम् &
जित्वानुरूपगुणशीलवयो ऽङ्गरूपां $ सीताभिधां श्रियमुरस्यभिलब्धमानाम् &
मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं % दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ भ्प्_09.10.007* ॥
यः सत्यपाशपरिवीतपितुर्निदेशं $ स्त्रैणस्य चापि शिरसा जगृहे सभार्यः &
यः सत्यपाशपरिवीतपितुर्निदेशं $ स्त्रैणस्य चापि शिरसा जगृहे सभार्यः &
राज्यं श्रियं प्रणयिनः सुहृदो निवासं % त्यक्त्वा ययौ वनमसून् इव मुक्तसङ्गः ॥ भ्प्_09.10.008* ॥
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् $ तस्याः खरत्रिशिरदूषणमुख्यबन्धून् &
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् $ तस्याः खरत्रिशिरदूषणमुख्यबन्धून् &
जघ्ने चतुर्दशसहस्रमपारणीय % कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ भ्प्_09.10.009* ॥
सीताकथाश्रवणदीपितहृच्छयेन $ सृष्टं विलोक्य नृपते दशकन्धरेण &
सीताकथाश्रवणदीपितहृच्छयेन $ सृष्टं विलोक्य नृपते दशकन्धरेण &
जघ्ने ऽद्भुतैणवपुषाश्रमतो ऽपकृष्टो % मारीचमाशु विशिखेन यथा कमुग्रः ॥ भ्प्_09.10.010* ॥
रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं $ वैदेहराजदुहितर्यपयापितायाम् &
रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं $ वैदेहराजदुहितर्यपयापितायाम् &
भ्रात्रा वने कृपणवत् प्रियया वियुक्तः % स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ भ्प्_09.10.011* ॥
दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं $ सख्यं विधाय कपिभिर्दयितागतिं तैः &
दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं $ सख्यं विधाय कपिभिर्दयितागतिं तैः &
बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैर् % वेलामगात् स मनुजो ऽजभवार्चिताङ्घ्रिः ॥ भ्प्_09.10.012* ॥
यद्रोषविभ्रमविवृत्तकटाक्षपात $ सम्भ्रान्तनक्रमकरो भयगीर्णघोषः &
यद्रोषविभ्रमविवृत्तकटाक्षपात $ सम्भ्रान्तनक्रमकरो भयगीर्णघोषः &
सिन्धुः शिरस्यर्हणं परिगृह्य रूपी % पादारविन्दमुपगम्य बभाष एतत् ॥ भ्प्_09.10.013* ॥
न त्वां वयं जडधियो नु विदाम भूमन् $ कूटस्थमादिपुरुषं जगतामधीशम् &
न त्वां वयं जडधियो नु विदाम भूमन् $ कूटस्थमादिपुरुषं जगतामधीशम् &
यत्सत्त्वतः सुरगणा रजसः प्रजेशा % मन्योश्च भूतपतयः स भवान् गुणेशः ॥ भ्प्_09.10.014* ॥
कामं प्रयाहि जहि विश्रवसो ऽवमेहं $ त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् &
कामं प्रयाहि जहि विश्रवसो ऽवमेहं $ त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् &
बध्नीहि सेतुमिह ते यशसो वितत्यै % गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ भ्प्_09.10.015* ॥
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः $ सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः &
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः $ सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः &
सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् % लङ्कां विभीषणदृशाविशदग्रदग्धाम् ॥ भ्प्_09.10.016* ॥
सा वानरेन्द्रबलरुद्धविहारकोष्ठ $ श्रीद्वारगोपुरसदोवलभीविटङ्का &
सा वानरेन्द्रबलरुद्धविहारकोष्ठ $ श्रीद्वारगोपुरसदोवलभीविटङ्का &
निर्भज्यमानधिषणध्वजहेमकुम्भ % शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ भ्प्_09.10.017* ॥
रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ $ धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् &
रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ $ धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् &
पुत्रं प्रहस्तमतिकायविकम्पनादीन् % सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ भ्प्_09.10.018* ॥
तां यातुधानपृतनामसिशूलचाप $ प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् &
तां यातुधानपृतनामसिशूलचाप $ प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् &
सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद % नीलाङ्गदर्क्षपनसादिभिरन्वितो ऽगात् ॥ भ्प्_09.10.019* ॥
ते ऽनीकपा रघुपतेरभिपत्य सर्वे $ द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः &
ते ऽनीकपा रघुपतेरभिपत्य सर्वे $ द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः &
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः % सीताभिमर्षहतमङ्गलरावणेशान् ॥ भ्प्_09.10.020* ॥
रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट $ आरुह्य यानकमथाभिससार रामम् &
रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट $ आरुह्य यानकमथाभिससार रामम् &
स्वःस्यन्दने द्युमति मातलिनोपनीते % विभ्राजमानमहनन् निशितैः क्षुरप्रैः ॥ भ्प्_09.10.021* ॥
रामस्तमाह पुरुषादपुरीष यन् नः $ कान्तासमक्षमसतापहृता श्ववत् ते &
रामस्तमाह पुरुषादपुरीष यन् नः $ कान्तासमक्षमसतापहृता श्ववत् ते &
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य % यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः ॥ भ्प्_09.10.022* ॥
एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज $ बाणं स वज्रमिव तद्धृदयं बिभेद &
एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज $ बाणं स वज्रमिव तद्धृदयं बिभेद &
सो ऽसृग् वमन् दशमुखैर्न्यपतद्विमानाद् % धाहेति जल्पति जने सुकृतीव रिक्तः ॥ भ्प्_09.10.023* ॥
ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन्

09.10.025

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।
रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना

09.10.026

हा हताः स्म वयं नाथ लोकरावण रावण ।
कं यायाच् छरणं लङ्का त्वद्विहीना परार्दिता

09.10.027

न वै वेद महाभाग भवान् कामवशं गतः ।
तेजो ऽनुभावं सीताया येन नीतो दशामिमाम्

09.10.028

कृतैषा विधवा लङ्का वयं च कुलनन्दन ।
देहः कृतो ऽन्नं गृध्राणामात्मा नरकहेतवे

09.10.029

भ्प्_09.10.029।0 श्रीशुक उवाच
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।
पितृमेधविधानेन यदुक्तं साम्परायिकम्

09.10.030

ततो ददर्श भगवान् अशोकवनिकाश्रमे ।
क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम्

09.10.031

रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।
आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम्

09.10.032

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।
विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम्

09.10.033

लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ।
अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि

09.10.034

उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।
गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम्

09.10.035

महाकारुणिको ऽतप्यज् जटिलं स्थण्डिलेशयम् ।
भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः

09.10.036

पादुके शिरसि न्यस्य रामं प्रत्युद्यतो ऽग्रजम् ।
नन्दिग्रामात् स्वशिबिराद्गीतवादित्रनिःस्वनैः

09.10.037

ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः ।
स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः

09.10.038

सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः ।
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः

09.10.039

पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।
पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः

09.10.040

पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।
तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः

09.10.041

रामो लक्ष्मणसीताभ्यां विप्रेभ्यो ये ऽर्हसत्तमाः ।
तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः

09.10.042

धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।
उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा

09.10.043

पादुके भरतो ऽगृह्णाच् चामरव्यजनोत्तमे ।
विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः

09.10.044

धनुर्निषङ्गान् छत्रुघ्नः सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण् नृप

09.10.045

पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः ।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः

09.10.046

भ्रात्राभिनन्दितः सो ऽथ सोत्सवां प्राविशत् पुरीम् ।
प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम्

09.10.047

गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः

09.10.048

पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः ।
आरोप्याङ्के ऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः

09.10.049

जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।
अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः

09.10.050

एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः ।
स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ

09.10.051

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।
प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।
जुगोप पितृवद्रामो मेनिरे पितरं च तम्

09.10.052

त्रेतायां वर्तमानायां कालः कृतसमो ऽभवत् ।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे

09.10.053

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः ।
सर्वे कामदुघा आसन् प्रजानां भरतर्षभ

09.10.054

नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः ।
मृत्युश्चानिच्छतां नासीद्रामे राजन्यधोक्षजे

09.10.055

एकपत्नीव्रतधरो राजर्षिचरितः शुचिः ।
स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत्

09.10.056

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भावज्ञा भर्तुः सीताहरन् मनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc