भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.09

09.09.001

भ्प्_09.09.001।0 श्रीशुक उवाच
अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया ।
कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः

09.09.002

दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् ।
भगीरथस्तस्य सुतस्तेपे स सुमहत् तपः

09.09.003

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः

09.09.004

को ऽपि धारयिता वेगं पतन्त्या मे महीतले ।
अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम्

09.09.005

किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।
मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम्

09.09.006

भ्प्_09.09.006।0 श्रीभगीरथ उवाच
साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः ।
हरन्त्यघं ते ऽङ्गसङ्गात् तेष्व् आस्ते ह्यघभिद्धरिः

09.09.007

धारयिष्यति ते वेगं रुद्रस्त्व् आत्मा शरीरिणाम् ।
यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु

09.09.008

इत्युक्त्वा स नृपो देवं तपसातोषयच् छिवम् ।
कालेनाल्पीयसा राजंस्तस्येशश्चाश्व् अतुष्यत

09.09.009

तथेति राज्ञाभिहितं सर्वलोकहितः शिवः ।
दधारावहितो गङ्गां पादपूतजलां हरेः

09.09.010

भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् ।
यत्र स्वपित्-णां देहा भस्मीभूताः स्म शेरते

09.09.011

रथेन वायुवेगेन प्रयान्तमनुधावती ।
देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान्

09.09.012

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।
सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः

09.09.013

भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः ।
किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः

09.09.014

न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।
अनन्तचरणाम्भोज प्रसूताया भवच्छिदः

09.09.015

सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयो ऽमलाः ।
त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम्

09.09.016

श्रुतो भगीरथाज् जज्ञे तस्य नाभो ऽपरो ऽभवत् ।
सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततो ऽभवत्

09.09.017

ऋतूपर्णो नलसखो यो ऽश्वविद्यामयान् नलात् ।
दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम्

09.09.018

ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः ।
आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् ।
वसिष्ठशापाद्रक्षो ऽभूदनपत्यः स्वकर्मणा

09.09.019

भ्प्_09.09.019।0 श्रीराजोवाच
किं निमित्तो गुरोः शापः सौदासस्य महात्मनः ।
एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि

09.09.020

भ्प्_09.09.020।0 श्रीशुक उवाच
सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह ।
मुमोच भ्रातरं सो ऽथ गतः प्रतिचिकीर्षया

09.09.021

सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम्

09.09.022

परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा ।
राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि

09.09.023

रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् ।
सो ऽप्यपो ऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः

09.09.024

वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ ।
दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः

09.09.025

राक्षसं भावमापन्नः पादे कल्माषतां गतः ।
व्यवायकाले ददृशे वनौकोदम्पती द्विजौ

09.09.026

क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् ।
न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः

09.09.027

मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि ।
देहि मे ऽपत्यकामाया अकृतार्थं पतिं द्विजम्

09.09.028

देहो ऽयं मानुषो राजन् पुरुषस्याखिलार्थदः ।
तस्मादस्य वधो वीर सर्वार्थवध उच्यते

09.09.029

एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः ।
आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
सर्वभूतात्मभावेन भूतेष्व् अन्तर्हितं गुणैः

09.09.030

सो ऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो ।
कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः

09.09.031

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः ।
कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान्

09.09.032

यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः ।
न जीविष्ये विना येन क्षणं च मृतकं यथा

09.09.033

एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।
व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः

09.09.034

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।
शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती

09.09.035

यस्मान् मे भक्षितः पाप कामार्तायाः पतिस्त्वया ।
तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः

09.09.036

एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धे ऽग्नौ प्रास्य भर्तुर्गतिं गता

09.09.037

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः ।
विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः

09.09.038

अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः ।
वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात्

09.09.039

सा वै सप्त समा गर्भमबिभ्रन् न व्यजायत ।
जघ्ने ऽश्मनोदरं तस्याः सो ऽश्मकस्तेन कथ्यते

09.09.040

अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः ।
नारीकवच इत्युक्तो निःक्षत्रे मूलको ऽभवत्

09.09.041

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः ।
राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत्

09.09.042

यो देवैरर्थितो दैत्यान् अवधीद्युधि दुर्जयः ।
मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः

09.09.043

न मे ब्रह्मकुलात् प्राणाः कुलदैवान् न चात्मजाः ।
न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः

09.09.044

न बाल्ये ऽपि मतिर्मह्यमधर्मे रमते क्वचित् ।
नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्व् अहम्

09.09.045

देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः ।
न वृणे तमहं कामं भूतभावनभावनः

09.09.046

ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।
न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे

09.09.047

अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु ।
रूढं प्रकृत्यात्मनि विश्वकर्तुर् भावेन हित्वा तमहं प्रपद्ये

09.09.048

इति व्यवसितो बुद्ध्या नारायणगृहीतया ।
हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः

09.09.049

यत् तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् ।
भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc