भागवत पुराण · अध्याय 09.08
भ्प्_09.08.001।0 श्रीशुक उवाच
हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता ।
चम्पापुरी सुदेवो ऽतो विजयो यस्य चात्मजः
भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः ।
सो ऽरिभिर्हृतभू राजा सभार्यो वनमाविशत्
वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती ।
और्वेण जानतात्मानं प्रजावन्तं निवारिता
आज्ञायास्यै सपत्नीभिर्गरो दत्तो ऽन्धसा सह ।
सह तेनैव सञ्जातः सगराख्यो महायशाः
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः ।
यस्तालजङ्घान् यवनाञ् छकान् हैहयबर्बरान्
नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः ।
मुण्डान् छ्मश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान्
अनन्तर्वाससः कांश्चिदबहिर्वाससो ऽपरान् ।
सो ऽश्वमेधैरयजत सर्ववेदसुरात्मकम्
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः
सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः ।
हयमन्वेषमाणास्ते समन्तान् न्यखनन् महीम्
प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।
एष वाजिहरश्चौर आस्ते मीलितलोचनः
हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः ।
उदायुधा अभिययुरुन्मिमेष तदा मुनिः
स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः ।
महद्व्यतिक्रमहता भस्मसादभवन् क्षणात्
न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि ।
कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः
यस्येरिता साङ्ख्यमयी दृढेह नौर् यया मुमुक्षुस्तरते दुरत्ययम् ।
भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः
यो ऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः ।
तस्य पुत्रो ऽंशुमान् नाम पितामहहिते रतः
असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् ।
जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।
सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयन् जनम्
एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै ।
योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ
अयोध्यावासिनः सर्वे बालकान् पुनरागतान् ।
दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत
अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।
पितृव्यखातानुपथं भस्मान्ति ददृशे हयम्
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् ।
अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान्
भ्प्_09.08.022।0 अंशुमान् उवाच
न पश्यति त्वां परमात्मनो ऽजनो न बुध्यते ऽद्यापि समाधियुक्तिभिः ।
कुतो ऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः
ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च ।
यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः
तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः ।
सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि
प्रशान्त मायागुणकर्मलिङ्गम् अनामरूपं सदसद्विमुक्तम् ।
ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम्
त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।
भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः
अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः ।
मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात्
भ्प्_09.08.028।0 श्रीशुक उवाच
इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः ।
अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप
भ्प्_09.08.029।0 श्रीभगवान् उवाच
अश्वो ऽयं नीयतां वत्स पितामहपशुस्तव ।
इमे च पितरो दग्धा गङ्गाम्भो ऽर्हन्ति नेतरत्
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।
सगरस्तेन पशुना यज्ञशेषं समापयत्
राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः ।
और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0