भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.07

09.07.001

भ्प्_09.07.001।0 श्रीशुक उवाच
मान्धातुः पुत्रप्रवरो यो ऽम्बरीषः प्रकीर्तितः ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः ।
हारीतस्तस्य पुत्रो ऽभून् मान्धातृप्रवरा इमे

09.07.002

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः ।
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया

09.07.003

गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
नागाल् लब्धवरः सर्पादभयं स्मरतामिदम्

09.07.004

त्रसद्दस्युः पौरुकुत्सो यो ऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात् प्रारुणो ऽथ त्रिबन्धनः

09.07.005

तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः ।
प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा

09.07.006

सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते ।
पातितो ऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात्

09.07.007

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः ।
यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम्

09.07.008

सो ऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ।
वरुणं शरणं यातः पुत्रो मे जायतां प्रभो

09.07.009

यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः

09.07.010

जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सो ऽब्रवीत् ।
यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति

09.07.011

निर्दशे च स आगत्य यजस्वेत्याह सो ऽब्रवीत् ।
दन्ताः पशोर्यज् जायेरन्नथ मेध्यो भवेदिति

09.07.012

दन्ता जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् ।
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति

09.07.013

पशोर्निपतिता दन्ता यजस्वेत्याह सो ऽब्रवीत् ।
यदा पशोः पुनर्दन्ता जायन्ते ऽथ पशुः शुचिः

09.07.014

पुनर्जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्यो ऽथ पशुः शुचिः

09.07.015

इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत

09.07.016

रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत

09.07.017

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत

09.07.018

भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः ।
रोहितायादिशच् छक्रः सो ऽप्यरण्ये ऽवसत् समाम्

09.07.019

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा

09.07.020

षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।
उपव्रजन्नजीगर्तादक्रीणान् मध्यमं सुतम्

09.07.021

शुनःशेफं पशुं पित्रे प्रदाय समवन्दत ।
ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः

09.07.022

मुक्तोदरो ऽयजद्देवान् वरुणादीन् महत्कथः ।
विश्वामित्रो ऽभवत् तस्मिन् होता चाध्वर्युरात्मवान्

09.07.023

जमदग्निरभूद्ब्रह्मा वसिष्ठो ऽयास्यः सामगः ।
तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम्

09.07.024

शुनःशेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते ।
सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः

09.07.025

विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् ।
मनः पृथिव्यां तामद्भिस्तेजसापो ऽनिलेन तत्

09.07.026

खे वायुं धारयंस्तच् च भूतादौ तं महात्मनि ।
तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन्

09.07.027

हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc