भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.01

09.01.001

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः $ श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा &अम्प्;
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां % तमहमखिलहेतुं जिह्ममीनं नतो ऽस्मि ॥ भ्प्_08.24.061*
0 श्रीराजोवाच
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च

09.01.002

यो ऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः ।
ज्ञानं यो ऽतीतकल्पान्ते लेभे पुरुषसेवया

09.01.003

स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् ।
त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः

09.01.004

तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च ।
कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः

09.01.005

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये ।
तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान्

09.01.006

भ्प्_09.01.006।0 श्रीसूत उवाच
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।
पृष्टः प्रोवाच भगवाञ् छुकः परमधर्मवित्

09.01.007

भ्प्_09.01.007।0 श्रीशुक उवाच
श्रूयतां मानवो वंशः प्राचुर्येण परन्तप ।
न शक्यते विस्तरतो वक्तुं वर्षशतैरपि

09.01.008

परावरेषां भूतानामात्मा यः पुरुषः परः ।
स एवासीदिदं विश्वं कल्पान्ते ऽन्यन् न किञ्चन

09.01.009

तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः ।
तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः

09.01.010

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः ।
दाक्षायण्यां ततो ऽदित्यां विवस्वान् अभवत् सुतः

09.01.011

ततो मनुः श्राद्धदेवः संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान्

09.01.012

इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः

09.01.013

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।
मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः

09.01.014

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत ।
दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता

09.01.015

प्रेषितो ऽध्वर्युणा होता व्यचरत् तत् समाहितः ।
गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः

09.01.016

होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् ।
तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम्

09.01.017

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।
विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया

09.01.018

यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः ।
कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्व् इव

09.01.019

निशम्य तद्वचस्तस्य भगवान् प्रपितामहः ।
होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम्

09.01.020

एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः ।
तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा

09.01.021

एवं व्यवसितो राजन् भगवान् स महायशाः ।
अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया

09.01.022

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।
ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः

09.01.023

स एकदा महाराज विचरन् मृगयां वने ।
वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम्

09.01.024

प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् ।
दंशितो ऽनुमृगं वीरो जगाम दिशमुत्तराम्

09.01.025

सुकुमारवनं मेरोरधस्तात् प्रविवेश ह ।
यत्रास्ते भगवान् छर्वो रममाणः सहोमया

09.01.026

तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा ।
अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप

09.01.027

तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् ।
दृष्ट्वा विमनसो ऽभूवन् वीक्षमाणाः परस्परम्

09.01.028

भ्प्_09.01.028।0 श्रीराजोवाच
कथमेवं गुणो देशः केन वा भगवन् कृतः ।
प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः

09.01.029

भ्प्_09.01.029।0 श्रीशुक उवाच
एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन्

09.01.030

तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् ।
भर्तुरङ्कात् समुत्थाय नीवीमाश्व् अथ पर्यधात्

09.01.031

ऋषयो ऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम्

09.01.032

तदिदं भगवान् आह प्रियायाः प्रियकाम्यया ।
स्थानं यः प्रविशेदेतत् स वै योषिद्भवेदिति

09.01.033

तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि ।
सा चानुचरसंयुक्ता विचचार वनाद्वनम्

09.01.034

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः

09.01.035

सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् ।
स तस्यां जनयामास पुरूरवसमात्मजम्

09.01.036

एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः ।
सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम

09.01.037

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम्

09.01.038

तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् ।
स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते

09.01.039

मासं पुमान् स भविता मासं स्त्री तव गोत्रजः ।
इत्थं व्यवस्थया कामं सुद्युम्नो ऽवतु मेदिनीम्

09.01.040

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः

09.01.041

तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः

09.01.042

ततः परिणते काले प्रतिष्ठानपतिः प्रभुः ।
पुरूरवस उत्सृज्य गां पुत्राय गतो वनम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc