भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.02

09.02.001

भ्प्_09.02.001।0 श्रीशुक उवाच
एवं गते ऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समाः

09.02.002

ततो ऽयजन् मनुर्देवमपत्यार्थं हरिं प्रभुम् ।
इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश

09.02.003

पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रतः

09.02.004

एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति ।
शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे

09.02.005

एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रो ऽनुससार ह

09.02.006

खड्गमादाय तरसा प्रलीनोडुगणे निशि ।
अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया

09.02.007

व्याघ्रो ऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः ।
निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन्

09.02.008

मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा ।
अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः

09.02.009

तं शशाप कुलाचार्यः कृतागसमकामतः ।
न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना

09.02.010

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।
अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम्

09.02.011

वासुदेवे भगवति सर्वात्मनि परे ऽमले ।
एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः

09.02.012

विमुक्तसङ्गः शान्तात्मा संयताक्षो ऽपरिग्रहः ।
यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः

09.02.013

आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः ।
विचचार महीमेतां जडान्धबधिराकृतिः

09.02.014

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।
तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः

09.02.015

कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् ।
निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः

09.02.016

करूषान् मानवादासन् कारूषाः क्षत्रजातयः ।
उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः

09.02.017

धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः

09.02.018

वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम्

09.02.019

चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतो ऽभवत् ।
तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः

09.02.020

वीतिहोत्रस्त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवाः सुतस्तस्य देवदत्तस्ततो ऽभवत्

09.02.021

ततो ऽग्निवेश्यो भगवान् अग्निः स्वयमभूत् सुतः ।
कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः

09.02.022

ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ।
नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु

09.02.023

नाभागो दिष्टपुत्रो ऽन्यः कर्मणा वैश्यतां गतः ।
भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात्

09.02.024

वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः ।
खनित्रः प्रमतेस्तस्माच् चाक्षुषो ऽथ विविंशतिः

09.02.025

विविंशतेः सुतो रम्भः खनीनेत्रो ऽस्य धार्मिकः ।
करन्धमो महाराज तस्यासीदात्मजो नृप

09.02.026

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तो ऽयाजयद्यं वै महायोग्यङ्गिरःसुतः

09.02.027

मरुत्तस्य यथा यज्ञो न तथान्यो ऽस्ति कश्चन ।
सर्वं हिरण्मयं त्व् आसीद्यत् किञ्चिच् चास्य शोभनम्

09.02.028

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारो विश्वेदेवाः सभासदः

09.02.029

मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः

09.02.030

तत्सुतः केवलस्तस्माद्धुन्धुमान् वेगवांस्ततः ।
बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः

09.02.031

तं भेजे ऽलम्बुषा देवी भजनीयगुणालयम् ।
वराप्सरा यतः पुत्राः कन्या चेलविलाभवत्

09.02.032

यस्यामुत्पादयामास विश्रवा धनदं सुतम् ।
प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः

09.02.033

विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः ।
विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम्

09.02.034

हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः ।
तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः

09.02.035

कृशाश्वात् सोमदत्तो ऽभूद्यो ऽश्वमेधैरिडस्पतिम् ।
इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम्

09.02.036

सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः ।
एते वैशालभूपालास्तृणबिन्दोर्यशोधराः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc