भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.24

08.24.001

भ्प्_08.24.001।0 श्रीराजोवाच
भगवन् छ्रोतुमिच्छामि हरेरद्भुतकर्मणः ।
अवतारकथामाद्यां मायामत्स्यविडम्बनम्

08.24.002

यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् ।
तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः

08.24.003

एतन् नो भगवन् सर्वं यथावद्वक्तुमर्हसि ।
उत्तमश्लोकचरितं सर्वलोकसुखावहम्

08.24.004

भ्प्_08.24.004।0 श्रीसूत उवाच
इत्य् उक्तो विष्णुरातेन भगवान् बादरायणिः ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम्

08.24.005

भ्प्_08.24.005।0 श्रीशुक उवाच
गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।
रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि

08.24.006

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।
नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः

08.24.007

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप

08.24.008

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।
मुखतो निःसृतान् वेदान् हयग्रीवो ऽन्तिके ऽहरत्

08.24.009

ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
दधार शफरीरूपं भगवान् हरिरीश्वरः

08.24.010

तत्र राजऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् ।
नारायणपरो ऽतपत् तपः स सलिलाशनः

08.24.011

यो ऽसावस्मिन् महाकल्पे तनयः स विवस्वतः ।
श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः

08.24.012

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
तस्याञ्जल्युदके काचिच् छफर्य् एकाभ्यपद्यत

08.24.013

सत्यव्रतो ऽञ्जलिगतां सह तोयेन भारत ।
उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः

08.24.014

तमाह सातिकरुणं महाकारुणिकं नृपम् ।
यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले

08.24.015

तमात्मनो ऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
अजानन् रक्षणार्थाय शफर्याः स मनो दधे

08.24.016

तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः ।
कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम्

08.24.017

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
अलब्ध्वात्मावकाशं वा इदमाह महीपतिम्

08.24.018

नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
कल्पयौकः सुविपुलं यत्राहं निवसे सुखम्

08.24.019

स एनां तत आदाय न्यधादौदञ्चनोदके ।
तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत

08.24.020

न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।
पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता

08.24.021

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
तदावृत्यात्मना सो ऽयं महामीनो ऽन्ववर्धत

08.24.022

नैतन् मे स्वस्तये राजन्नुदकं सलिलौकसः ।
निधेहि रक्षायोगेन ह्रदे मामविदासिनि

08.24.023

इत्य् उक्तः सो ऽनयन् मत्स्यं तत्र तत्राविदासिनि ।
जलाशये ऽसम्मितं तं समुद्रे प्राक्षिपज् झषम्

08.24.024

क्षिप्यमाणस्तमाहेदमिह मां मकरादयः ।
अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुमर्हसि

08.24.025

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन्

08.24.026

नैवं वीर्यो जलचरो दृष्टो ऽस्माभिः श्रुतो ऽपि वा ।
यो भवान् योजनशतमह्नाभिव्यानशे सरः

08.24.027

नूनं त्वं भगवान् साक्षाद्धरिर्नारायणो ऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम्

08.24.028

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्मगतिर्विभो

08.24.029

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्य् अदो रूपं यदर्थं भवता धृतम्

08.24.030

न ते ऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सताम् अदीदृशो यद्वपुरद्भुतं हि नः

08.24.031

भ्प्_08.24.031।0 श्रीशुक उवाच
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये ।
विहर्तुकामः प्रलयार्णवे ऽब्रवीच् चिकीर्षुरेकान्तजनप्रियः प्रियम्

08.24.032

भ्प्_08.24.032।0 श्रीभगवान् उवाच
सप्तमे ह्य् अद्यतनादूर्ध्वमहन्य् एतदरिन्दम ।
निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम्

08.24.033

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता

08.24.034

त्वं तावदोषधीः सर्वा बीजान्य् उच्चावचानि च ।
सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः

08.24.035

आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः ।
एकार्णवे निरालोके ऋषीणामेव वर्चसा

08.24.036

दोधूयमानां तां नावं समीरेण बलीयसा ।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना

08.24.037

अहं त्वामृषिभिः सार्धं सहनावमुदन्वति ।
विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो

08.24.038

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि

08.24.039

इत्थमादिश्य राजानं हरिरन्तरधीयत ।
सो ऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत्

08.24.040

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः ।
निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः

08.24.041

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।
वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत

08.24.042

ध्यायन् भगवदादेशं ददृशे नावमागताम् ।
तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः

08.24.043

तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।
स वै नः सङ्कटादस्मादविता शं विधास्यति

08.24.044

सो ऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे ।
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः

08.24.045

निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।
वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम्

08.24.046

भ्प्_08.24.046।0 श्रीराजोवाच
अनाद्यविद्योपहतात्मसंविदस् तन्मूलसंसारपरिश्रमातुराः ।
यदृच्छयोपसृता यमाप्नुयुर् विमुक्तिदो नः परमो गुरुर्भवान्

08.24.047

जनो ऽबुधो ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते ऽसुखम् ।
यत्सेवया तां विधुनोत्य् असन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः

08.24.048

यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः ।
भजेत वर्णं निजमेष सो ऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः

08.24.049

न यत्प्रसादायुतभागलेशम् अन्ये च देवा गुरवो जनाः स्वयम् ।
कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं त्वां शरणं प्रपद्ये

08.24.050

अचक्षुरन्धस्य यथाग्रणीः कृतस् तथा जनस्याविदुषो ऽबुधो गुरुः ।
त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम्

08.24.051

जनो जनस्यादिशते ऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः ।
त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम्

08.24.052

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्य् आत्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।
तथापि लोको न भवन्तमन्धधीर् जानाति सन्तं हृदि बद्धकामः

08.24.053

तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय ।
छिन्ध्य् अर्थदीपैर्भगवन् वचोभिर् ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः

08.24.054

भ्प्_08.24.054।0 श्रीशुक उवाच
इत्य् उक्तवन्तं नृपतिं भगवान् आदिपूरुषः ।
मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत्

08.24.055

पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।
सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः

08.24.056

अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् ।
नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम्

08.24.057

अतीतप्रलयापाय उत्थिताय स वेधसे ।
हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः

08.24.058

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।
विष्णोः प्रसादात् कल्पे ऽस्मिन्नासीद्वैवस्वतो मनुः

08.24.059

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।
संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात्

08.24.060

अवतारं हरेर्यो ऽयं कीर्तयेदन्वहं नरः ।
सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc