भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.23

08.23.001

भ्प्_08.23.001।0 श्रीशुक उवाच
इत्य् उक्तवन्तं पुरुषं पुरातनं महानुभावो ऽखिलसाधुसम्मतः ।
बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत्

08.23.002

भ्प्_08.23.002।0 श्रीबलिरुवाच
अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः ।
यल् लोकपालैस्त्वदनुग्रहो ऽमरैर् अलब्धपूर्वो ऽपसदे ऽसुरे ऽर्पितः

08.23.003

भ्प्_08.23.003।0 श्रीशुक उवाच
इत्य् उक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः ।
विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः

08.23.004

एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
पूरयित्वादितेः काममशासत् सकलं जगत्

08.23.005

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत्

08.23.006

भ्प्_08.23.006।0 श्रीप्रह्राद उवाच
नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ऽन्ये ।
यन् नो ऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः

08.23.009

यत्पादपद्ममकरन्दनिषेवणेन $ ब्रह्मादयः शरणदाश्नुवते विभूतीः &अम्प्;
कस्माद्वयं कुसृतयः खलयोनयस्ते % दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ भ्प्_08.23.007* ॥
चित्रं तवेहितमहो ऽमितयोगमाया $ लीलाविसृष्टभुवनस्य विशारदस्य &
चित्रं तवेहितमहो ऽमितयोगमाया $ लीलाविसृष्टभुवनस्य विशारदस्य &
सर्वात्मनः समदृशो ऽविषमः स्वभावो % भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ भ्प्_08.23.008*
0 श्रीभगवान् उवाच
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह

08.23.010

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः

08.23.011

भ्प्_08.23.011।0 श्रीशुक उवाच
आज्ञां भगवतो राजन् प्रह्रादो बलिना सह ।
बाढमित्य् अमलप्रज्ञो मूर्ध्न्य् आधाय कृताञ्जलिः

08.23.012

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः ।
प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम्

08.23.013

अथाहोशनसं राजन् हरिर्नारायणो ऽन्तिके ।
आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम्

08.23.014

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।
यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत्

08.23.015

भ्प्_08.23.015।0 श्रीशुक्र उवाच
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः

08.23.016

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।
सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव

08.23.017

तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् ।
एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम्

08.23.018

भ्प्_08.23.018।0 श्रीशुक उवाच
प्रतिनन्द्य हरेराज्ञामुशना भगवान् इति ।
यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह

08.23.019

एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम्

08.23.020

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।
दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च

08.23.021

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च ।
लोकानां लोकपालानामकरोद्वामनं पतिम्

08.23.022

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः

08.23.023

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये ।
तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप

08.23.024

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् ।
लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः

08.23.025

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः ।
श्रिया परमया जुष्टो मुमुदे गतसाध्वसः

08.23.026

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।
पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये

08.23.027

सुमहत् कर्म तद्विष्णोर्गायन्तः परमद्भुतम् ।
धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे

08.23.028

सर्वमेतन् मयाख्यातं भवतः कुलनन्दन ।
उरुक्रमस्य चरितं श्रोतॄणामघमोचनम्

08.23.030

पारं महिम्न उरुविक्रमतो गृणानो $ यः पार्थिवानि विममे स रजांसि मर्त्यः &अम्प्;
किं जायमान उत जात उपैति मर्त्य % इत्य् आह मन्त्रदृग् ऋषिः पुरुषस्य यस्य ॥ भ्प्_08.23.029* ॥
य इदं देवदेवस्य हरेरद्भुतकर्मणः ।
अवतारानुचरितं शृण्वन् याति परां गतिम्

08.23.031

क्रियमाणे कर्मणीदं दैवे पित्र्ये ऽथ मानुषे ।
यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc