भागवत पुराण · अध्याय 08.21
भ्प्_08.21.001।0 श्रीशुक उवाच
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर् हतस्वधामद्युतिरावृतो ऽभ्यगात् ।
मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः
वेदोपवेदा नियमा यमान्वितास् तर्केतिहासाङ्गपुराणसंहिताः ।
ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः ।
ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम्
अथाङ्घ्रये प्रोन्नमिताय विष्णोर् उपाहरत् पद्मभवो ऽर्हणोदकम् ।
समर्च्य भक्त्याभ्यगृणाच् छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम्
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।
सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।
धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः ।
नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः
जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः ।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत्
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।
ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः
न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः ।
द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति
अनेन याचमानेन शत्रुणा वटुरूपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः
तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।
इत्य् आयुधानि जगृहुर्बलेरनुचरासुराः
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः ।
अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः
तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः
नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः ।
कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट्
जयन्तः श्रुतदेवश्च पुष्पदन्तो ऽथ सात्वतः ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम्
हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः ।
वारयामास संरब्धान् काव्यशापमनुस्मरन्
हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।
मा युध्यत निवर्तध्वं न नः कालो ऽयमर्थकृत्
यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये ।
तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान्
यो नो भवाय प्राग् आसीदभवाय दिवौकसाम् ।
स एव भगवान् अद्य वर्तते तद्विपर्ययम्
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः ।
सामादिभिरुपायैश्च कालं नात्येति वै जनः
भवद्भिर्निर्जिता ह्य् एते बहुशो ऽनुचरा हरेः ।
दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः
एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात् कालं प्रतीक्षध्वं यो नो ऽर्थत्वाय कल्पते
भ्प्_08.21.025।0 श्रीशुक उवाच
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः ।
रसां निर्विविशू राजन् विष्णुपार्षद ताडिताः
अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् ।
बबन्ध वारुणैः पाशैर्बलिं सूत्ये ऽहनि क्रतौ
हाहाकारो महान् आसीद्रोदस्योः सर्वतो दिशम् ।
निगृह्यमाणे ऽसुरपतौ विष्णुना प्रभविष्णुना
तं बद्धं वारुणैः पाशैर्भगवान् आह वामनः ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय
यावत् तपत्य् असौ गोभिर्यावदिन्दुः सहोडुभिः ।
यावद्वर्षति पर्जन्यस्तावती भूरियं तव
पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः ।
स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना
प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः
वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्य् अधः ।
प्रतिश्रुतस्यादानेन यो ऽर्थिनं विप्रलम्भते
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0