भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.20

08.20.001

भ्प्_08.20.001।0 श्रीशुक उवाच
बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम्

08.20.002

भ्प्_08.20.002।0 श्रीबलिरुवाच
सत्यं भगवता प्रोक्तं धर्मो ऽयं गृहमेधिनाम् ।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्

08.20.003

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा

08.20.004

न ह्य् असत्यात् परो ऽधर्म इति होवाच भूरियम् ।
सर्वं सोढुमलं मन्ये ऋते ऽलीकपरं नरम्

08.20.005

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् ।
न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात्

08.20.006

यद्यद्धास्यति लोके ऽस्मिन् सम्परेतं धनादिकम् ।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन् न तेन चेत्

08.20.007

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।
दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु

08.20.008

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।
तेषां कालो ऽग्रसील् लोकान् न यशो ऽधिगतं भुवि

08.20.009

सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास्तनुत्यजः ।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः

08.20.010

मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः ।
कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम्

08.20.011

यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः ।
स एव विष्णुर्वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिमीप्सितां मुने

08.20.012

यद्यप्य् असावधर्मेण मां बध्नीयादनागसम् ।
तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्

08.20.013

एष वा उत्तमश्लोको न जिहासति यद्यशः ।
हत्वा मैनां हरेद्युद्धे शयीत निहतो मया

08.20.014

भ्प्_08.20.014।0 श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।
शशाप दैवप्रहितः सत्यसन्धं मनस्विनम्

08.20.015

दृढं पण्डितमान्य् अज्ञः स्तब्धो ऽस्य् अस्मदुपेक्षया ।
मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः

08.20.016

एवं शप्तः स्वगुरुणा सत्यान् न चलितो महान् ।
वामनाय ददावेनामर्चित्वोदकपूर्वकम्

08.20.017

विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममवनेजन्यपां भृतम्

08.20.018

यजमानः स्वयं तस्य श्रीमत् पादयुगं मुदा ।
अवनिज्यावहन् मूर्ध्नि तदपो विश्वपावनीः

08.20.019

तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः ।
तत् कर्म सर्वे ऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः

08.20.020

नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः ।
मनस्विनानेन कृतं सुदुष्करं विद्वान् अदाद्यद्रिपवे जगत्त्रयम्

08.20.021

तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् ।
भूः खं दिशो द्यौर्विवराः पयोधयस् तिर्यङ्नृदेवा ऋषयो यदासत

08.20.022

काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् ।
ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम्

08.20.023

रसामचष्टाङ्घ्रितले ऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः ।
पतत्त्रिणो जानुनि विश्वमूर्तेर् ऊर्वोर्गणं मारुतमिन्द्रसेनः

08.20.024

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्ममुख्यान् ।
नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम्

08.20.025

हृद्य् अङ्ग धर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य् अथेन्दुम् ।
श्रियं च वक्षस्य् अरविन्दहस्तां कण्ठे च सामानि समस्तरेफान्

08.20.026

इन्द्रप्रधानान् अमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।
केशेषु मेघान् छ्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निम्

08.20.027

वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटे ऽधर एव लोभम्

08.20.028

स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च

08.20.029

नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च ।
प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः

08.20.030

सर्वात्मनीदं भुवनं निरीक्ष्य सर्वे ऽसुराः कश्मलमापुरङ्ग ।
सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम्

08.20.031

पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी ।
विद्याधरो ऽसिः शतचन्द्रयुक्तस् तूणोत्तमावक्षयसायकौ च

08.20.032

सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः ।
स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः

08.20.033

मधुव्रतस्रग्वनमालयावृतो रराज राजन् भगवान् उरुक्रमः ।
क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः

08.20.034

पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्याङ्घ्रिरुपर्य् उपर्य् अथो महर्जनाभ्यां तपसः परं गतः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc