भागवत पुराण · अध्याय 08.22
भ्प्_08.22.001।0 श्रीशुक उवाच
एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।
भिद्यमानो ऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः
भ्प्_08.22.002।0 श्रीबलिरुवाच
यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते ।
करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम्
बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् ।
नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि
त्वं नूनमसुराणां नः परोक्षः परमो गुरुः ।
यो नो ऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत्
यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।
बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः
तेनाहं निगृहीतो ऽस्मि भवता भूरिकर्मणा ।
बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे
पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः ।
भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा
किमात्मनानेन जहाति यो ऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः ।
किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः
इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् ।
ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम
अथाहमप्य् आत्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः ।
इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते
भ्प्_08.22.012।0 श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः
तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत
तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् ।
ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह
स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् ।
उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः
भ्प्_08.22.016।0 श्रीप्रह्राद उवाच
त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् ।
मन्ये महान् अस्य कृतो ह्य् अनुग्रहो विभ्रंशितो यच् छ्रिय आत्ममोहनात्
यया हि विद्वान् अपि मुह्यते यतस् तत् को विचष्टे गतिमात्मनो यथा ।
तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे
भ्प्_08.22.018।0 श्रीशुक उवाच
तस्यानुशृण्वतो राजन् प्रह्रादस्य कृताञ्जलेः ।
हिरण्यगर्भो भगवान् उवाच मधुसूदनम्
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।
प्राञ्जलिः प्रणतोपेन्द्रं बभाषे ऽवाङ्मुखी नृप
भ्प्_08.22.020।0 श्रीविन्ध्यावलिरुवाच
क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो ऽपर ईश कुर्युः ।
कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः
भ्प्_08.22.021।0 श्रीब्रह्मोवाच
भूतभावन भूतेश देवदेव जगन्मय ।
मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम्
कृत्स्ना ते ऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।
निवेदितं च सर्वस्वमात्माविक्लवया धिया
यत्पादयोरशठधीः सलिलं प्रदाय $ दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् &अम्प्;
अप्य् उत्तमां गतिमसौ भजते त्रिलोकीं % दाश्वान् अविक्लवमनाः कथमार्तिमृच्छेत् ॥ भ्प्_08.22.023*
0 श्रीभगवान् उवाच
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्य् अहम् ।
यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते
यदा कदाचिज् जीवात्मा संसरन् निजकर्मभिः ।
नानायोनिष्वनीशो ऽयं पौरुषीं गतिमाव्रजेत्
जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः ।
यद्य् अस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः
मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।
सर्वश्रेयःप्रतीपानां हन्त मुह्येन् न मत्परः
एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः ।
अजैषीदजयां मायां सीदन्नपि न मुह्यति
क्षीणरिक्थश्च्युतः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः ।
ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः
गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक्
एष मे प्रापितः स्थानं दुष्प्रापममरैरपि ।
सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।
नोपसर्गा निवसतां सम्भवन्ति ममेक्षया
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः
न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे ।
त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति
रक्षिष्ये सर्वतो ऽहं त्वां सानुगं सपरिच्छदम् ।
सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान्
तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः ।
दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0