भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.19

08.19.001

भ्प्_08.19.001।0 श्रीशुक उवाच
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।
निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत्

08.19.002

भ्प्_08.19.002।0 श्रीभगवान् उवाच
वचस्तवैतज् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् ।
यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः

08.19.003

न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये

08.19.004

न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप ।
युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे

08.19.005

यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुधः

08.19.006

यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।
आत्मानं जयिनं मेने तद्वीर्यं भूर्य् अनुस्मरन्

08.19.007

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः

08.19.008

तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः

08.19.009

यतो यतो ऽहं तत्रासौ मृत्युः प्राणभृतामिव ।
अतो ऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः

08.19.010

एवं स निश्चित्य रिपोः शरीरम् आधावतो निर्विविशे ऽसुरेन्द्र ।
श्वासानिलान्तर्हितसूक्ष्मदेहस् तत्प्राणरन्ध्रेण विविग्नचेताः

08.19.011

स तन्निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद ।
क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः

08.19.012

अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।
भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान्

08.19.013

वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् ।
अज्ञानप्रभवो मन्युरहंमानोपबृंहितः

08.19.014

पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।
स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्यो ऽदात् स याचितः

08.19.015

भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः ।
ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः

08.19.016

तस्मात् त्वत्तो महीमीषद्वृणे ऽहं वरदर्षभात् ।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम

08.19.017

नान्यत् ते कामये राजन् वदान्याज् जगदीश्वरात् ।
नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः

08.19.018

भ्प्_08.19.018।0 श्रीबलिरुवाच
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः ।
त्वं बालो बालिशमतिः स्वार्थं प्रत्य् अबुधो यथा

08.19.019

मां वचोभिः समाराध्य लोकानामेकमीश्वरम् ।
पदत्रयं वृणीते यो ऽबुद्धिमान् द्वीपदाशुषम्

08.19.020

न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।
तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे

08.19.021

भ्प्_08.19.021।0 श्रीभगवान् उवाच
यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप

08.19.022

त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया

08.19.023

सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः ।
अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम्

08.19.024

यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः

08.19.025

पुंसो ऽयं संसृतेर्हेतुरसन्तोषो ऽर्थकामयोः ।
यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः

08.19.026

यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्य् असन्तोषादम्भसेवाशुशुक्षणिः

08.19.027

तस्मात् त्रीणि पदान्य् एव वृणे त्वद्वरदर्षभात् ।
एतावतैव सिद्धो ऽहं वित्तं यावत् प्रयोजनम्

08.19.028

भ्प्_08.19.028।0 श्रीशुक उवाच
इत्य् उक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम्

08.19.029

विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः

08.19.030

भ्प्_08.19.030।0 श्रीशुक्र उवाच
एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः ।
कश्यपाददितेर्जातो देवानां कार्यसाधकः

08.19.031

प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
न साधु मन्ये दैत्यानां महान् उपगतो ऽनयः

08.19.032

एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् ।
दास्यत्य् आच्छिद्य शक्राय मायामाणवको हरिः

08.19.033

त्रिभिः क्रमैरिमाल् लोकान् विश्वकायः क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम्

08.19.034

क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
खं च कायेन महता तार्तीयस्य कुतो गतिः

08.19.035

निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् ।
प्रतिश्रुतस्य यो ऽनीशः प्रतिपादयितुं भवान्

08.19.036

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः

08.19.037

धर्माय यशसे ऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन् वित्तमिहामुत्र च मोदते

08.19.038

अत्रापि बह्वृचैर्गीतं शृणु मे ऽसुरसत्तम ।
सत्यमोमिति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत्

08.19.039

सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
वृक्षे ऽजीवति तन् न स्यादनृतं मूलमात्मनः

08.19.040

तद्यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्तते ऽचिरात् ।
एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः

08.19.041

पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् ।
भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने

08.19.042

अथैतत् पूर्णमभ्यात्मं यच् च नेत्य् अनृतं वचः ।
सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः

08.19.043

स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc