भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.11

08.11.001

भ्प्_08.11.001।0 श्रीशुक उवाच
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया ।
जघ्नुर्भृशं शक्रसमीरणादयस् तांस्तान् रणे यैरभिसंहताः पुरा

08.11.002

वैरोचनाय संरब्धो भगवान् पाकशासनः ।
उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः

08.11.003

वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे

08.11.004

नटवन् मूढ मायाभिर्मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम्

08.11.005

आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदादधः

08.11.006

सो ऽहं दुर्मायिनस्ते ऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह

08.11.007

भ्प्_08.11.007।0 श्रीबलिरुवाच
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
कीर्तिर्जयो ऽजयो मृत्युः सर्वेषां स्युरनुक्रमात्

08.11.008

तदिदं कालरशनं जगत् पश्यन्ति सूरयः ।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः

08.11.009

न वयं मन्यमानानामात्मानं तत्र साधनम् ।
गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः

08.11.010

भ्प्_08.11.010।0 श्रीशुक उवाच
इत्य् आक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः ।
आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः

08.11.011

एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः

08.11.012

प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः ।
सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः

08.11.013

सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् ।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन्

08.11.014

स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
जत्रावताडयच् छक्रं गजं च सुमहाबलः

08.11.015

गदाप्रहारव्यथितो भृशं विह्वलितो गजः ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ

08.11.016

ततो रथो मातलिना हरिभिर्दशशतैर्वृतः ।
आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः

08.11.017

तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः ।
शूलेन ज्वलता तं तु स्मयमानो ऽहनन् मृधे

08.11.018

सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः ।
इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः

08.11.019

जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।
नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः

08.11.020

वचोभिः परुषैरिन्द्रमर्दयन्तो ऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम्

08.11.021

हरीन् दशशतान्य् आजौ हर्यश्वस्य बलः शरैः ।
तावद्भिरर्दयामास युगपल् लघुहस्तवान्

08.11.022

शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत् सन्धानमोक्षेण तदद्भुतमभूद्रणे

08.11.023

नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः ।
आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः

08.11.024

सर्वतः शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः

08.11.025

अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः ।
अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे

08.11.026

ततस्तुराषाड् इषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः ।
बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये

08.11.027

निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे ।
उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा

08.11.028

स तेनैवाष्टधारेण शिरसी बलपाकयोः ।
ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम्

08.11.029

नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः ।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम्

08.11.030

अश्मसारमयं शूलं घण्टावद्धेमभूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतो ऽसीति वितर्जयन् ।
प्राहिणोद्देवराजाय निनदन् मृगराड् इव

08.11.031

तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा ।
तमाहनन् नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन्

08.11.032

न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः ।
तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा

08.11.033

तस्मादिन्द्रो ऽबिभेच् छत्रोर्वज्रः प्रतिहतो यतः ।
किमिदं दैवयोगेन भूतं लोकविमोहनम्

08.11.034

येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये ।
कृतो निविशतां भारैः पतत्त्रैः पततां भुवि

08.11.035

तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।
अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः

08.11.036

सो ऽयं प्रतिहतो वज्रो मया मुक्तो ऽसुरे ऽल्पके ।
नाहं तदाददे दण्डं ब्रह्मतेजो ऽप्य् अकारणम्

08.11.037

इति शक्रं विषीदन्तमाह वाग् अशरीरिणी ।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः

08.11.038

मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः ।
अतो ऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः

08.11.039

तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम्

08.11.040

न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम्

08.11.041

गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा

08.11.042

अन्ये ऽप्य् एवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः ।
सूदयामासुरसुरान् मृगान् केसरिणो यथा

08.11.043

ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप ।
वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम्

08.11.044

भ्प्_08.11.044।0 श्रीनारद उवाच
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः ।
श्रिया समेधिताः सर्व उपारमत विग्रहात्

08.11.045

भ्प्_08.11.045।0 श्रीशुक उवाच
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।
उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम्

08.11.046

ये ऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन्

08.11.047

तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया

08.11.048

बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः ।
पराजितो ऽपि नाखिद्यल् लोकतत्त्वविचक्षणः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc