भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.12

08.12.001

भ्प्_08.12.001।0 श्रीबादरायणिरुवाच
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।
मोहयित्वा सुरगणान् हरिः सोममपाययत्

08.12.002

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।
सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः

08.12.003

सभाजितो भगवता सादरं सोमया भवः ।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम्

08.12.004

भ्प्_08.12.004।0 श्रीमहादेव उवाच
देवदेव जगद्व्यापिन् जगदीश जगन्मय ।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः

08.12.005

आद्यन्तावस्य यन् मध्यमिदमन्यदहं बहिः ।
यतो ऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्भवान्

08.12.006

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
विसृज्योभयतः सङ्गं मुनयः समुपासते

08.12.012

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम् $ आनन्दमात्रमविकारमनन्यदन्यत् &अम्प्;
विश्वस्य हेतुरुदयस्थितिसंयमानाम् % आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ भ्प्_08.12.007* ॥
एकस्त्वमेव सदसद्द्वयमद्वयं च $ स्वर्णं कृताकृतमिवेह न वस्तुभेदः &
एकस्त्वमेव सदसद्द्वयमद्वयं च $ स्वर्णं कृताकृतमिवेह न वस्तुभेदः &
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो % यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ भ्प्_08.12.008* ॥
त्वां ब्रह्म केचिदवयन्त्य् उत धर्ममेके $ एके परं सदसतोः पुरुषं परेशम् &
त्वां ब्रह्म केचिदवयन्त्य् उत धर्ममेके $ एके परं सदसतोः पुरुषं परेशम् &
अन्ये ऽवयन्ति नवशक्तियुतं परं त्वां % केचिन् महापुरुषमव्ययमात्मतन्त्रम् ॥ भ्प्_08.12.009* ॥
नाहं परायुरृषयो न मरीचिमुख्या $ जानन्ति यद्विरचितं खलु सत्त्वसर्गाः &
नाहं परायुरृषयो न मरीचिमुख्या $ जानन्ति यद्विरचितं खलु सत्त्वसर्गाः &
यन्मायया मुषितचेतस ईश दैत्य % मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ भ्प्_08.12.010* ॥
स त्वं समीहितमदः स्थितिजन्मनाशं $ भूतेहितं च जगतो भवबन्धमोक्षौ &
स त्वं समीहितमदः स्थितिजन्मनाशं $ भूतेहितं च जगतो भवबन्धमोक्षौ &
वायुर्यथा विशति खं च चराचराख्यं % सर्वं तदात्मकतयावगमो ऽवरुन्त्से ॥ भ्प्_08.12.011* ॥
अवतारा मया दृष्टा रममाणस्य ते गुणैः ।
सो ऽहं तद्द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम्

08.12.013

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।
तद्दिदृक्षव आयाताः परं कौतूहलं हि नः

08.12.014

भ्प्_08.12.014।0 श्रीशुक उवाच
एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत

08.12.015

भ्प्_08.12.015।0 श्रीभगवान् उवाच
कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः ।
पश्यता सुरकार्याणि गते पीयूषभाजने

08.12.016

तत् ते ऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।
कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम्

08.12.017

भ्प्_08.12.017।0 श्रीशुक उवाच
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया

08.12.018

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे ।
विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम्

08.12.019

आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे ।
प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्ततः

08.12.020

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् ।
स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम्

08.12.021

श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना ।
विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया

08.12.022

तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।
स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद

08.12.023

तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः ।
वासः ससूत्रं लघु मारुतो ऽहरद् भवस्य देवस्य किलानुपश्यतः

08.12.024

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।
दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल

08.12.025

तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः ।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ

08.12.026

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत

08.12.027

तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः ।
कामस्य च वशं नीतः करेणुमिव यूथपः

08.12.028

सो ऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे

08.12.029

सोपगूढा भगवता करिणा करिणी यथा ।
इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा

08.12.030

आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।
प्राद्रवत् सा पृथुश्रोणी माया देवविनिर्मिता

08.12.031

तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः

08.12.032

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।
शुष्मिणो यूथपस्येव वासितामनुधावतः

08.12.033

यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः ।
तानि रूप्यस्य हेम्नश्च क्षेत्राण्य् आसन् महीपते

08.12.034

सरित्सरःसु शैलेषु वनेषूपवनेषु च ।
यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः

08.12.035

स्कन्ने रेतसि सो ऽपश्यदात्मानं देवमायया ।
जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात्

08.12.036

अथावगतमाहात्म्य आत्मनो जगदात्मनः ।
अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम्

08.12.037

तमविक्लवमव्रीडमालक्ष्य मधुसूदनः ।
उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम्

08.12.038

भ्प्_08.12.038।0 श्रीभगवान् उवाच
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।
यन् मे स्त्रीरूपया स्वैरं मोहितो ऽप्य् अङ्ग मायया

08.12.039

को नु मे ऽतितरेन् मायां विषक्तस्त्वदृते पुमान् ।
तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः

08.12.040

सेयं गुणमयी माया न त्वामभिभविष्यति ।
मया समेता कालेन कालरूपेण भागशः

08.12.041

भ्प्_08.12.041।0 श्रीशुक उवाच
एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः ।
आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ

08.12.042

आत्मांशभूतां तां मायां भवानीं भगवान् भवः ।
सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत

08.12.043

अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः ।
अहं कलानामृषभो ऽपि मुह्ये ययावशो ऽन्ये किमुतास्वतन्त्राः

08.12.044

यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै ।
स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः

08.12.045

भ्प्_08.12.045।0 श्रीशुक उवाच
इति ते ऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः ।
सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः

08.12.046

एतन् मुहुः कीर्तयतो ऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित् ।
यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc