भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.10

08.10.001

एवं सुरासुरगणाः समदेशकाल $ हेत्वर्थकर्ममतयो ऽपि फले विकल्पाः &अम्प्;
तत्रामृतं सुरगणाः फलमञ्जसापुर् % यत्पादपङ्कजरजःश्रयणान् न दैत्याः ॥ भ्प्_08.09.028* ॥
यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् $ देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् &
यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् $ देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् &
तैरेव सद्भवति यत् क्रियते ऽपृथक्त्वात् % सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ भ्प्_08.09.029*
0 श्रीशुक उवाच
इति दानवदैतेया नाविन्दन्नमृतं नृप ।
युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः

08.10.002

साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् ।
पश्यतां सर्वभूतानां ययौ गरुडवाहनः

08.10.003

सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः ।
अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः

08.10.004

ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।
प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः

08.10.005

तत्र दैवासुरो नाम रणः परमदारुणः ।
रोधस्य् उदन्वतो राजंस्तुमुलो रोमहर्षणः

08.10.006

तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः

08.10.007

शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।
हस्त्यश्वरथपत्तीनां नदतां निस्वनो ऽभवत्

08.10.008

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।
हया हयैरिभाश्चेभैः समसज्जन्त संयुगे

08.10.009

उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः ।
केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः

08.10.010

गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः ।
शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः

08.10.011

शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः ।
बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः

08.10.012

अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः ।
सेनयोरुभयो राजन् विविशुस्ते ऽग्रतो ऽग्रतः

08.10.013

चित्रध्वजपटै राजन्नातपत्रैः सितामलैः ।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः

08.10.014

वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः ।
स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः

08.10.015

देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
रेजतुर्वीरमालाभिर्यादसामिव सागरौ

08.10.016

वैरोचनो बलिः सङ्ख्ये सो ऽसुराणां चमूपतिः ।
यानं वैहायसं नाम कामगं मयनिर्मितम्

08.10.017

सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम्

08.10.018

आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः ।
बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये

08.10.019

तस्यासन् सर्वतो यानैर्यूथानां पतयो ऽसुराः ।
नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः

08.10.020

द्विमूर्धा कालनाभो ऽथ प्रहेतिर्हेतिरिल्वलः ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः

08.10.021

हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।
तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः

08.10.022

अरिष्टो ऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।
अन्ये पौलोमकालेया निवातकवचादयः

08.10.023

अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।
सर्व एते रणमुखे बहुशो निर्जितामराः

08.10.024

सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् ।
दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम्

08.10.025

ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् ।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः

08.10.026

तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः ।
लोकपालाः सहगणैर्वाय्वग्निवरुणादयः

08.10.027

ते ऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः ।
आह्वयन्तो विशन्तो ऽग्रे युयुधुर्द्वन्द्वयोधिनः

08.10.028

युयोध बलिरिन्द्रेण तारकेण गुहो ऽस्यत ।
वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना

08.10.029

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः

08.10.030

अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।
सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च

08.10.031

राहुणा च तथा सोमः पुलोम्ना युयुधे ऽनिलः ।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी

08.10.032

वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।
इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम

08.10.033

कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चरः

08.10.034

मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः ।
विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह

08.10.035

त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः ।
अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः

08.10.036

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि ।
निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः

08.10.037

गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः ।
निकृत्तबाहूरुशिरोधराङ्घ्रयश् छिन्नध्वजेष्वासतनुत्रभूषणाः

08.10.038

तेषां पदाघातरथाङ्गचूर्णिताद् आयोधनादुल्बण उत्थितस्तदा ।
रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात्

08.10.039

शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः ।
महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ

08.10.040

कबन्धास्तत्र चोत्पेतुः पतितस्वशिरो ऽक्षिभिः ।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे

08.10.041

बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः ।
चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत्

08.10.042

स तान् आपततः शक्रस्तावद्भिः शीघ्रविक्रमः ।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव

08.10.043

तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे ।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः

08.10.044

ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः ।
यद्यच् छस्त्रं समादद्यात् सर्वं तदच्छिनद्विभुः

08.10.045

ससर्जाथासुरीं मायामन्तर्धानगतो ऽसुरः ।
ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो

08.10.046

ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।
शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम्

08.10.047

महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः ।
सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः

08.10.048

यातुधान्यश्च शतशः शूलहस्ता विवाससः ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो

08.10.049

ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः ।
अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः

08.10.050

सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः ।
सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक्

08.10.051

ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।
प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः

08.10.052

एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे ।
सृज्यमानासु मायासु विषेदुः सुरसैनिकाः

08.10.053

न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः

08.10.054

ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः ।
अदृश्यताष्टायुधबाहुरुल्लसच् छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः

08.10.055

तस्मिन् प्रविष्टे ऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः ।
स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम्

08.10.056

दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः ।
तल् लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन् नृप सवाहमरिं त्र्यधीशः

08.10.057

माली सुमाल्य् अतिबलौ युधि पेततुर्यच् चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।
आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच् छिरो ऽच्छिनदरेर्नदतो ऽरिणाद्यः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc