भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.06

08.06.001

भ्प्_08.06.001।0 श्रीशुक उवाच
एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः ।
तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः

08.06.002

तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः ।
नापश्यन् खं दिशः क्षौणीमात्मानं च कुतो विभुम्

08.06.003

विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।
स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम्

08.06.004

तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम्

08.06.005

महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम्

08.06.006

काञ्चीकलापवलय हारनूपुरशोभिताम् ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम्

08.06.007

सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् ।
तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ।
सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः

08.06.008

भ्प्_08.06.008।0 श्रीब्रह्मोवाच
अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्ने ऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते

08.06.009

रूपं तवैतत् पुरुषर्षभेज्यं श्रेयो ऽर्थिभिर्वैदिकतान्त्रिकेण ।
योगेन धातः सह नस्त्रिलोकान् पश्याम्य् अमुष्मिन्नु ह विश्वमूर्तौ

08.06.010

त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् त्वय्य् अन्त आसीदिदमात्मतन्त्रे ।
त्वमादिरन्तो जगतो ऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात्

08.06.011

त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः ।
पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवाये ऽप्य् अगुणं विपश्चितः

08.06.012

यथाग्निमेधस्य् अमृतं च गोषु भुव्य् अन्नमम्बूद्यमने च वृत्तिम् ।
योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति

08.06.013

तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् ।
दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः

08.06.014

स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् ।
समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः

08.06.015

अहं गिरित्रश्च सुरादयो ये दक्षादयो ऽग्नेरिव केतवस्ते ।
किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम्

08.06.016

भ्प्_08.06.016।0 श्रीशुक उवाच
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं यथैव ।
जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान्

08.06.017

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।
विहर्तुकामस्तान् आह समुद्रोन्मथनादिभिः

08.06.018

भ्प्_08.06.018।0 श्रीभगवान् उवाच
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः

08.06.019

यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् ।
कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः

08.06.020

अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
अहिमूषिकवद्देवा ह्य् अर्थस्य पदवीं गतैः

08.06.021

अमृतोत्पादने यत्नः क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो ऽमरो भवेत्

08.06.022

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्

08.06.023

सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः

08.06.024

यूयं तदनुमोदध्वं यदिच्छन्त्य् असुराः सुराः ।
न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा

08.06.025

न भेतव्यं कालकूटाद्विषाज् जलधिसम्भवात् ।
लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु

08.06.026

भ्प्_08.06.026।0 श्रीशुक उवाच
इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।
तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः

08.06.027

अथ तस्मै भगवते नमस्कृत्य पितामहः ।
भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः

08.06.028

दृष्ट्वारीन् अप्य् असंयत्तान् जातक्षोभान् स्वनायकान् ।
न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित्

08.06.029

ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।
श्रिया परमया जुष्टं जिताशेषमुपागमन्

08.06.030

महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात्

08.06.031

तत् त्वरोचत दैत्यस्य तत्रान्ये ये ऽसुराधिपाः ।
शम्बरो ऽरिष्टनेमिश्च ये च त्रिपुरवासिनः

08.06.032

ततो देवासुराः कृत्वा संविदं कृतसौहृदाः ।
उद्यमं परमं चक्रुरमृतार्थे परन्तप

08.06.033

ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः ।
नदन्त उदधिं निन्युः शक्ताः परिघबाहवः

08.06.034

दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।
अपारयन्तस्तं वोढुं विवशा विजहुः पथि

08.06.035

निपतन् स गिरिस्तत्र बहून् अमरदानवान् ।
चूर्णयामास महता भारेण कनकाचलः

08.06.036

तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः

08.06.037

गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा

08.06.038

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः

08.06.039

अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc