भागवत पुराण · अध्याय 08.05
भ्प्_08.05.001।0 श्रीशुक उवाच
राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु
पञ्चमो रैवतो नाम मनुस्तामससोदरः ।
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः
विभुरिन्द्रः सुरगणा राजन् भूतरयादयः ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम्
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया
तस्यानुभावः कथितो गुणाश्च परमोदयाः ।
भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान्
षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।
पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।
मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः
तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः ।
अजितो नाम भगवान् अंशेन जगतः पतिः
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणो ऽम्भसि धृतः कूर्मरूपेण मन्दरः
भ्प्_08.05.011।0 श्रीराजोवाच
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना
यथामृतं सुरैः प्राप्तं किं चान्यदभवत् ततः ।
एतद्भगवतः कर्म वदस्व परमाद्भुतम्
त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम्
भ्प्_08.05.014।0 श्रीसूत उवाच
सम्पृष्टो भगवान् एवं द्वैपायनसुतो द्विजाः ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे
भ्प्_08.05.015।0 श्रीशुक उवाच
यदा युद्धे ऽसुरैर्देवा बध्यमानाः शितायुधैः ।
गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः
यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप ।
निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः
निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः ।
नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम्
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः ।
सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने
स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् ।
लोकान् अमङ्गलप्रायान् असुरान् अयथा विभुः
समाहितेन मनसा संस्मरन् पुरुषं परम् ।
उवाचोत्फुल्लवदनो देवान् स भगवान् परः
अहं भवो यूयमथो ऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः ।
यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम्
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः ।
तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले
अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् ।
तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः
भ्प्_08.05.024।0 श्रीशुक उवाच
इत्य् आभाष्य सुरान् वेधाः सह देवैररिन्दम ।
अजितस्य पदं साक्षाज् जगाम तमसः परम्
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः
भ्प्_08.05.026।0 श्रीब्रह्मोवाच
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् ।
मनो ऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम्
विपश्चितं प्राणमनोधियात्मनाम् अर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु ।
त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये
य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् ।
आसां चकारोपसुपर्णमेनम् उपासते योगरथेन धीराः
न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् ।
तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम्
इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः ।
गतिं न सूक्ष्मामृषयश्च विद्महे कुतो ऽसुराद्या इतरप्रधानाः
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः ।
स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः
अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्य् उत वर्धमानाः ।
लोका यतो ऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः
सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः ।
ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा ।
अन्तःसमुद्रे ऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः
यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः
प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः ।
अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः
श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।
प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः
बलान् महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः ।
खेभ्यस्तु छन्दांस्य् ऋषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः
श्रीर्वक्षसः पितरश्छाययासन् धर्मः स्तनादितरः पृष्ठतो ऽभूत् ।
द्यौर्यस्य शीर्ष्णो ऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः
विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च ।
ऊर्वोर्विड् ओजो ऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः
लोभो ऽधरात् प्रीतिरुपर्य् अभूद्द्युतिर् नस्तः पशव्यः स्पर्शेन कामः ।
भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः
द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति ।
यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः
नमो ऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने ।
गुणेषु मायारचितेषु वृत्तिभिर् न सज्जमानाय नभस्वदूतये
स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।
प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम्
तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो ।
कर्म दुर्विषहं यन् नो भगवांस्तत् करोति हि
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि
नावमः कर्मकल्पो ऽपि विफलायेश्वरार्पितः ।
कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि
नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0