भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.07

08.07.001

भ्प्_08.07.001।0 श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः

08.07.002

आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह ।
हरिः पुरस्ताज् जगृहे पूर्वं देवास्ततो ऽभवन्

08.07.004

स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।
इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः

08.07.006

कृतस्थानविभागास्त एवं कश्यपनन्दनाः ।
ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम्

08.07.007

मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्य् अपो ऽविशत् ।
ध्रियमाणो ऽपि बलिभिर्गौरवात् पाण्डुनन्दन

08.07.008

ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा

08.07.009

विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्यो ऽवितथाभिसन्धिः ।
कृत्वा वपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार

08.07.010

तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः ।
दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान्

08.07.011

सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।
बिभ्रत् तदावर्तनमादिकच्छपो मेने ऽङ्गकण्डूयनमप्रमेयः

08.07.012

तथासुरान् आविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णुर् दैवेन नागेन्द्रमबोधरूपः

08.07.013

उपर्य् अगेन्द्रं गिरिराड् इवान्य आक्रम्य हस्तेन सहस्रबाहुः ।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैर् अभिष्टुवद्भिः सुमनो ऽभिवृष्टः

08.07.014

उपर्य् अधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः ।
ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम्

08.07.015

अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसो ऽसुराः ।
पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन्

08.07.016

देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
समभ्यवर्षन् भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः

08.07.017

मथ्यमानात् तथा सिन्धोर् देवासुरवरूथपैः ।
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम्

08.07.019

मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् $ मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः &अम्प्;
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा % मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ भ्प्_08.07.018* ॥
निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः ।
सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात्

08.07.020

तदुग्रवेगं दिशि दिश्य् उपर्य् अधो विसर्पदुत्सर्पदसह्यमप्रति ।
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम्

08.07.021

विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतोस् तपो जुषाणं स्तुतिभिः प्रणेमुः

08.07.022

भ्प्_08.07.022।0 श्रीप्रजापतय ऊचुः
देवदेव महादेव भूतात्मन् भूतभावन ।
त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात्

08.07.023

त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम्

08.07.024

गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो ।
धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम्

08.07.025

त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः

08.07.026

त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः ।
कालः क्रतुः सत्यमृतं च धर्मस् त्वय्य् अक्षरं यत् त्रिवृदामनन्ति

08.07.027

अग्निर्मुखं ते ऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।
कालं गतिं ते ऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम्

08.07.028

नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः ।
परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते

08.07.029

कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते ।
छन्दांसि साक्षात् तव सप्त धातवस् त्रयीमयात्मन् हृदयं सर्वधर्मः

08.07.030

मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः ।
यत् तच् छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते

08.07.031

छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि ।
साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः

08.07.032

न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम्

08.07.036

कामाध्वरत्रिपुरकालगराद्यनेक $ भूतद्रुहः क्षपयतः स्तुतये न तत् ते &अम्प्;
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र % वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ भ्प्_08.07.033* ॥
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि $ द्वन्द्वं चरन्तमुमया तपसाभितप्तम् &
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि $ द्वन्द्वं चरन्तमुमया तपसाभितप्तम् &
कत्थन्त उग्रपरुषं निरतं श्मशाने % ते नूनमूतिमविदंस्तव हातलज्जाः ॥ भ्प्_08.07.034* ॥
तत् तस्य ते सदसतोः परतः परस्य $ नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः &
तत् तस्य ते सदसतोः परतः परस्य $ नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः &
ब्रह्मादयः किमुत संस्तवने वयं तु % तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ भ्प्_08.07.035* ॥
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस्ते ऽव्यक्तकर्मणः

08.07.037

भ्प्_08.07.037।0 श्रीशुक उवाच
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम्

08.07.038

भ्प्_08.07.038।0 श्रीशिव उवाच
अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् ।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम्

08.07.039

आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम्

08.07.040

प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः ।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया

08.07.041

पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीये ऽहं सचराचरः ।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे

08.07.042

भ्प्_08.07.042।0 श्रीशुक उवाच
एवमामन्त्र्य भगवान् भवानीं विश्वभावनः ।
तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत

08.07.043

ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन् महादेवः कृपया भूतभावनः

08.07.044

तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
यच् चकार गले नीलं तच् च साधोर्विभूषणम्

08.07.045

तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।
परमाराधनं तद्धि पुरुषस्याखिलात्मनः

08.07.046

निशम्य कर्म तच् छम्भोर्देवदेवस्य मीढुषः ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे

08.07.047

प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज् जगृहुः स्म तत् ।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये ऽपरे

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc