भागवत पुराण · अध्याय 08.04
भ्प्_08.03.030।0 श्रीशुक उवाच
एवं गजेन्द्रमुपवर्णितनिर्विशेषं $ ब्रह्मादयो विविधलिङ्गभिदाभिमानाः &
एवं गजेन्द्रमुपवर्णितनिर्विशेषं $ ब्रह्मादयो विविधलिङ्गभिदाभिमानाः &
नैते यदोपससृपुर्निखिलात्मकत्वात् % तत्राखिलामरमयो हरिराविरासीत् ॥ भ्प्_08.03.030* ॥
तं तद्वदार्तमुपलभ्य जगन्निवासः $ स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः &
तं तद्वदार्तमुपलभ्य जगन्निवासः $ स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः &
छन्दोमयेन गरुडेन समुह्यमानश् % चक्रायुधो ऽभ्यगमदाशु यतो गजेन्द्रः ॥ भ्प्_08.03.031* ॥
सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो $ दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् &
सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो $ दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् &
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् % नारायणाखिलगुरो भगवन् नमस्ते ॥ भ्प्_08.03.032* ॥
तं वीक्ष्य पीडितमजः सहसावतीर्य $ सग्राहमाशु सरसः कृपयोज्जहार &
तं वीक्ष्य पीडितमजः सहसावतीर्य $ सग्राहमाशु सरसः कृपयोज्जहार &
ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं % संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ भ्प्_08.03.033*
0 श्रीशुक उवाच
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम्
यो ऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम्
सो ऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान् मुक्तकिल्बिषः
गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः
स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः
स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतो ऽच्युतं समर्चयामास कुलाचलाश्रमः
यदृच्छया तत्र महायशा मुनिः समागमच् छिष्यगणैः परिश्रितः ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्य् उपासीनमृषिश्चुकोप ह
तस्मा इमं शापमदादसाधुर् अयं दुरात्माकृतबुद्धिरद्य ।
विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव
भ्प्_08.04.011।0 श्रीशुक उवाच
एवं शप्त्वा गतो ऽगस्त्यो भगवान् नृप सानुगः ।
इन्द्रद्युम्नो ऽपि राजर्षिर्दिष्टं तदुपधारयन्
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वे ऽप्य् अनुस्मृतिः
एवं विमोक्ष्य गजयूथपमब्जनाभस् $ तेनापि पार्षदगतिं गमितेन युक्तः &अम्प्;
गन्धर्वसिद्धविबुधैरुपगीयमान % कर्माद्भुतं स्वभवनं गरुडासनो ऽगात् ॥ भ्प्_08.04.013* ॥
एतन् महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् ।
स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम्
यथानुकीर्तयन्त्य् एतच् छ्रेयस्कामा द्विजातयः ।
शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः
भ्प्_08.04.017।0 श्रीभगवान् उवाच
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान्
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम्
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम्
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे ।
कर्माण्य् अनन्तपुण्यानि सूर्यं सोमं हुताशनम्
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान्
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।
स्मरन्ति मम रूपाणि मुच्यन्ते ते ऽंहसो ऽखिलात्
ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विपुलां गतिम्
भ्प्_08.04.026।0 श्रीशुक उवाच
इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् ।
हर्षयन् विबुधानीकमारुरोह खगाधिपम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0