भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.03

08.03.001

भ्प्_08.03.001।0 श्रीबादरायणिरुवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्य् अनुशिक्षितम्

08.03.002

भ्प्_08.03.003।0 श्रीगजेन्द्र उवाच
ओं नमो भगवते तस्मै यत एतच् चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि

08.03.003

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
यो ऽस्मात् परस्माच् च परस्तं प्रपद्ये स्वयम्भुवम्

08.03.004

यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत् तिरोहितम् ।
अविद्धदृक् साक्ष्य् उभयं तदीक्षते स आत्ममूलो ऽवतु मां परात्परः

08.03.005

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदासीद्गहनं गभीरं यस्तस्य पारे ऽभिविराजते विभुः

08.03.006

न यस्य देवा ऋषयः पदं विदुर् जन्तुः पुनः को ऽर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु

08.03.007

दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः ।
चरन्त्य् अलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः

08.03.008

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्य् अनुकालमृच्छति

08.03.009

तस्मै नमः परेशाय ब्रह्मणे ऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे

08.03.010

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि

08.03.011

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे

08.03.012

नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च

08.03.013

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः

08.03.014

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असता च्छाययोक्ताय सदाभासाय ते नमः

08.03.015

नमो नमस्ते ऽखिलकारणाय निष्कारणायाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय नमो ऽपवर्गाय परायणाय

08.03.016

गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस् करोमि

08.03.017

मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमो ऽलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते

08.03.018

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर् दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय

08.03.019

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति ।
किं चाशिषो रात्य् अपि देहमव्ययं करोतु मे ऽदभ्रदयो विमोक्षणम्

08.03.020

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः

08.03.021

तमक्षरं ब्रह्म परं परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं परिपूर्णमीडे

08.03.022

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः

08.03.023

यथार्चिषो ऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्य् असकृत् स्वरोचिषः ।
तथा यतो ऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः

08.03.024

स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः ।
नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः

08.03.025

जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस् तस्यात्मलोकावरणस्य मोक्षम्

08.03.026

सो ऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतो ऽस्मि परं पदम्

08.03.027

योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतो ऽस्म्य् अहम्

08.03.028

नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने

08.03.029

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तमितो ऽस्म्य् अहम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc