भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.02

08.02.001

भ्प्_08.02.001।0 श्रीशुक उवाच
आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः ।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः

08.02.002

तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् ।
दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः

08.02.003

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम्

08.02.004

स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः ।
करोति श्यामलां भूमिं हरिन्मरकताश्मभिः

08.02.005

सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः

08.02.006

यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया

08.02.007

नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः ।
चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः

08.02.008

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः ।
देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः

08.02.009

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
उद्यानमृतुमन् नाम आक्रीडं सुरयोषिताम्

08.02.010

सर्वतो ऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः

08.02.011

चूतैः पियालैः पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः

08.02.012

मधुकैः शालतालैश्च तमालैरसनार्जुनैः ।
अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः

08.02.013

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः ।
द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः

08.02.014

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः ।
तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम्

08.02.015

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् ।
मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः

08.02.016

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम्

08.02.017

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः ।
कदम्बवेतसनल नीपवञ्जुलकैर्वृतम्

08.02.018

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः ।
कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः

08.02.019

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः

08.02.020

तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन्

08.02.021

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः ।
महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः

08.02.022

वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणाः शशादयश् चरन्त्य् अभीता यदनुग्रहेण

08.02.023

स घर्मतप्तः करिभिः करेणुभिर् वृतो मदच्युत्करभैरनुद्रुतः ।
गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणो ऽलिकुलैर्मदाशनैः

08.02.024

सरो ऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः ।
वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्द्रुतम्

08.02.025

विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् ।
पपौ निकामं निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः

08.02.026

स पुष्करेणोद्धृतशीकराम्बुभिर् निपाययन् संस्नपयन् यथा गृही ।
घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणो ऽजमायया

08.02.027

तं तत्र कश्चिन् नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो यथाबलं सो ऽतिबलो विचक्रमे

08.02.028

तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियो ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन्

08.02.029

नियुध्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः ।
समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः

08.02.030

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् अभूद्व्ययः ।
विकृष्यमाणस्य जले ऽवसीदतो विपर्ययो ऽभूत् सकलं जलौकसः

08.02.031

इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत

08.02.032

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् ।
ग्राहेण पाशेन विधातुरावृतो ऽप्य् अहं च तं यामि परं परायणम्

08.02.033

यः कश्चनेशो बलिनो ऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भयान् मृत्युः प्रधावत्य् अरणं तमीमहि

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc