भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.01

08.01.001

भ्प्_08.01.001।0 श्रीराजोवाच
स्वायम्भुवस्येह गुरो वंशो ऽयं विस्तराच् छ्रुतः ।
यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः

08.01.002

मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम्

08.01.003

यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः ।
कृतवान् कुरुते कर्ता ह्य् अतीते ऽनागते ऽद्य वा

08.01.004

भ्प्_08.01.004।0 श्रीऋषिरुवाच
मनवो ऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भवः

08.01.005

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः ।
धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः

08.01.006

कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह

08.01.007

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत्

08.01.008

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
तप्यमानस्तपो घोरमिदमन्वाह भारत

08.01.009

भ्प्_08.01.009।0 श्रीमनुरुवाच
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयाने ऽस्मिन् नायं तं वेद वेद सः

08.01.010

आत्मावास्यमिदं विश्वं यत् किञ्चिज् जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्

08.01.011

यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति ।
तं भूतनिलयं देवं सुपर्णमुपधावत

08.01.012

न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः ।
विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत्

08.01.013

स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः ।
धत्ते ऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते

08.01.014

अथाग्रे ऋषयः कर्माण् ईहन्ते ऽकर्महेतवे ।
ईहमानो हि पुरुषः प्रायो ऽनीहां प्रपद्यते

08.01.015

ईहते भगवान् ईशो न हि तत्र विसज्जते ।
आत्मलाभेन पूर्णार्थो नावसीदन्ति ये ऽनु तम्

08.01.016

तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् ।
नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्ये ऽखिलधर्मभावनम्

08.01.017

भ्प्_08.01.017।0 श्रीशुक उवाच
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा

08.01.018

तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।
यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम्

08.01.019

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो ऽभवत् ।
द्युमत्सुषेणरोचिष्मत् प्रमुखास्तस्य चात्मजाः

08.01.020

तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः ।
ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः

08.01.021

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्य् अभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्य् अभिविश्रुतः

08.01.022

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।
अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः

08.01.023

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।
पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप

08.01.024

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित्

08.01.025

धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह

08.01.026

सो ऽनृतव्रतदुःशीलान् असतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः

08.01.027

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः ।
पृथुः ख्यातिर्नरः केतुरित्य् आद्या दश तत्सुताः

08.01.028

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।
ज्योतिर्धामादयः सप्त ऋषयस्तामसे ऽन्तरे

08.01.029

देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा

08.01.030

तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
हरिरित्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात्

08.01.031

भ्प्_08.01.031।0 श्रीराजोवाच
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत्

08.01.032

तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः

08.01.033

भ्प्_08.01.033।0 श्रीसूत उवाच
परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः ।
उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc