भागवत पुराण · अध्याय 06.16
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे $ शर्वादयो भ्रममिमं द्वितयं विसृज्य &अम्प्;
सद्यस्तदीयमतुलानधिकं महित्वं % प्रापुर्भवान् अपि परं न चिरादुपैति ॥ भ्प्_06.15.028*
0 श्रीबादरायणिरुवाच
अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम्
भ्प्_06.16.002।0 श्रीनारद उवाच
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।
सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम्
कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः ।
भुङ्क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम्
भ्प्_06.16.004।0 जीव उवाच
कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरो ऽभवन् ।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु
बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः ।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः
यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु
नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु ।
यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि
एवं योनिगतो जीवः स नित्यो निरहङ्कृतः ।
यावद्यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत्
एष नित्यो ऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।
आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः
न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा ।
एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः
नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
उदासीनवदासीनः परावरदृग् ईश्वरः
भ्प्_06.16.012।0 श्रीबादरायणिरुवाच
इत्य् उदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।
विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम्
निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः ।
तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम्
बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन् निरूपितम् ।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम्
स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।
गृहान्धकूपान् निष्क्रान्तः सरःपङ्कादिव द्विपः
कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः ।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत
अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।
भगवान् नारदः प्रीतो विद्यामेतामुवाच ह
ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च
नमो विज्ञानमात्राय परमानन्दमूर्तये ।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये
आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।
हृषीकेशाय महते नमस्ते ऽनन्तमूर्तये
वचस्य् उपरते ऽप्राप्य य एको मनसा सह ।
अनामरूपश्चिन्मात्रः सो ऽव्यान् नः सदसत्परः
यस्मिन्निदं यतश्चेदं तिष्ठत्य् अप्येति जायते ।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः
यन् न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिश्च विततं व्योमवत् तन् नतो ऽस्म्य् अहम्
देहेन्द्रियप्राणमनोधियो ऽमी यदंशविद्धाः प्रचरन्ति कर्मसु ।
नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति
ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते
_*
भ्प्_06.16.026।0 श्रीशुक उवाच
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो
चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम् ।
धारयामास सप्ताहमब्भक्षः सुसमाहितः
ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।
विद्याधराधिपत्यं च लेभे ऽप्रतिहतं नृप
ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।
जगाम देवदेवस्य शेषस्य चरणान्तिकम्
मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम् ।
प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम्
तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणो ऽभ्ययान् मुनिः ।
प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम्
स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन् मुहुः ।
प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत् तं प्रसमीडितुं चिरम्
ततः समाधाय मनो मनीषया बभाष एतत् प्रतिलब्धवाग् असौ ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम्
भ्प्_06.16.034।0 चित्रकेतुरुवाच
अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता ।
विजितास्ते ऽपि च भजताम् अकामात्मनां य आत्मदो ऽतिकरुणः
तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि ।
विश्वसृजस्ते ऽंशांशास् तत्र मृषा स्पर्धन्ति पृथग् अभिमत्या
परमाणुपरममहतोस् त्वमाद्यन्तान्तरवर्ती त्रयविधुरः ।
आदावन्ते ऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तराले ऽपि
क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः ।
यत्र पतत्य् अणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः
विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम्
कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि ।
ज्ञानात्मन्य् अगुणमये गुणगणतो ऽस्य द्वन्द्वजालानि
जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय आत्मारामा यमुपासते ऽपवर्गाय
विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो यः स ह्य् अविशुद्धः क्षयिष्णुरधर्मबहुलः
कः क्षेमो निजपरयोः कियान् वार्थः स्वपरद्रुहा धर्मेण ।
स्वद्रोहात् तव कोपः परसम्पीडया च तथाधर्मः
न व्यभिचरति तवेक्षा यया ह्य् अभिहितो भागवतो धर्मः ।
स्थिरचरसत्त्वकदम्बेष्व् अपृथग्धियो यमुपासते त्वार्याः
न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः ।
यन्नाम सकृच् छ्रवणात् पुक्कशो ऽपि विमुच्यते संसारात्
अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः ।
सुरऋषिणा यत् कथितं तावकेन कथमन्यथा भवति
विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः
नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय
यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति $ यं चेकितानमनु चित्तय उच्चकन्ति &अम्प्;
भूमण्डलं सर्षपायति यस्य मूर्ध्नि % तस्मै नमो भगवते ऽस्तु सहस्रमूर्ध्ने ॥ भ्प्_06.16.048*
0 श्रीशुक उवाच
संस्तुतो भगवान् एवमनन्तस्तमभाषत ।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह
भ्प्_06.16.050।0 श्रीभगवान् उवाच
यन् नारदाङ्गिरोभ्यां ते व्याहृतं मे ऽनुशासनम् ।
संसिद्धो ऽसि तया राजन् विद्यया दर्शनाच् च मे
अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू
लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम्
यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः
एवं जागरणादीनि जीवस्थानानि चात्मनः ।
मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत्
येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।
सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम्
उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।
अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम्
यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः ।
ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः
लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।
आत्मानं यो न बुद्ध्येत न क्वचित् क्षेममाप्नुयात्
स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।
अभयं चाप्य् अनीहायां सङ्कल्पाद्विरमेत् कविः
सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।
ततो ऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च
एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम्
दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ।
ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत्
एतावान् एव मनुजैर्योगनैपुण्यबुद्धिभिः ।
स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैकदर्शनम्
त्वमेतच् छ्रद्धया राजन्नप्रमत्तो वचो मम ।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि
भ्प्_06.16.065।0 श्रीशुक उवाच
आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्गुरुः ।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0