भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.15

06.15.001

भ्प्_06.15.001।0 श्रीशुक उवाच
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।
शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः

06.15.002

को ऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति ।
त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम्

06.15.003

यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः ।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः

06.15.004

यथा धानासु वै धाना भवन्ति न भवन्ति च ।
एवं भूतानि भूतेषु चोदितानीशमायया

06.15.005

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।
जन्ममृत्योर्यथा पश्चात् प्राङ् नैवमधुनापि भोः

06.15.006

भूतैर्भूतानि भूतेशः सृजत्य् अवति हन्ति च ।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षो ऽपि बालवत्

06.15.007

देहेन देहिनो राजन् देहाद्देहो ऽभिजायते ।
बीजादेव यथा बीजं देह्य् अर्थ इव शाश्वतः

06.15.008

देहदेहिविभागो ऽयमविवेककृतः पुरा ।
जातिव्यक्तिविभागो ऽयं यथा वस्तुनि कल्पितः

06.15.009

भ्प्_06.15.009।0 श्रीशुक उवाच
एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।
विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत

06.15.010

भ्प्_06.15.010।0 श्रीराजोवाच
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।
अवधूतेन वेषेण गूढाविह समागतौ

06.15.011

चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्प्रियाः ।
मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः

06.15.012

कुमारो नारद ऋभुरङ्गिरा देवलो ऽसितः ।
अपान्तरतमा व्यासो मार्कण्डेयो ऽथ गौतमः

06.15.013

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।
दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः

06.15.014

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।
ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा

06.15.015

हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः

06.15.016

तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू ।
अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम्

06.15.017

भ्प्_06.15.017।0 श्रीअङ्गिरा उवाच
अहं ते पुत्रकामस्य पुत्रदो ऽस्म्य् अङ्गिरा नृप ।
एष ब्रह्मसुतः साक्षान् नारदो भगवान् ऋषिः

06.15.018

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।
अतदर्हमनुस्मृत्य महापुरुषगोचरम्

06.15.019

अनुग्रहाय भवतः प्राप्तावावामिह प्रभो ।
ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि

06.15.020

तदैव ते परं ज्ञानं ददामि गृहमागतः ।
ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्य् अहम्

06.15.021

अधुना पुत्रिणां तापो भवतैवानुभूयते ।
एवं दारा गृहा रायो विविधैश्वर्यसम्पदः

06.15.022

शब्दादयश्च विषयाश्चला राज्यविभूतयः ।
मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः

06.15.023

सर्वे ऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।
गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः

06.15.024

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।
कर्मभिर्ध्यायतो नाना कर्माणि मनसो ऽभवन्

06.15.025

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
देहिनो विविधक्लेश सन्तापकृदुदाहृतः

06.15.026

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश

06.15.027

भ्प्_06.15.027।0 श्रीनारद उवाच
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc